This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१५१
 
तेर्दुरवधारत्वात् प्राणानां
 
वारुणीमदतरलवरतरुणीभ्रूलताविभ्रमानु
कारितया तद्वतां का पुनः समागमप्रत्याशेति भावः । एतदेव स्वजी-
वितमेव; सति हि कुङ्ये चित्रकर्मसौकर्यमिति भावः अत्र शृङ्गार
प्रसङ्गे शान्तरसविभावस्योपादानं प्रतिकूलमिति रसदोषो नाशङ्कनीयः,
नायिकाजीवितदर्शनाभ्युदयमुदितहृदयस्य
नायकवचनत्वाभावात्,
मेघस्य तदाश्वासन एव तात्पर्यात् । न चात्र सुलभविपत्त्वमात्रं प्रति-
पादितम्, अपि तु विविधभोगनिदानतया कुशलमेवाशास्यं प्रका-
शितमिति न निर्वेदप्रस्तावः । अर्थान्तरन्यासोऽलंकारः ॥ ३४ ॥
अङ्गेनाङ्गं तनु च तनुना गादतप्तेन तप्तं
सास्त्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥
 
अथ कुशलप्रश्नावधृततदीयजीविताव स्थापितस्वजीवितस्य तद्विषयां
प्रवृत्तिमाह– अङ्गेनाङ्गमित्यादि । चकारः कुशलप्रश्नसमुच्चयार्थः ।
तनु कृशम् । तनुना कृशेन । गाढततेन अतिशयज्वरितेन । तसं
ज्वरितम् । सास्रेण सत्राष्पेण । आसद्रुतम् अश्रुरूपेण विलीनम् ।
अविरतोत्कण्ठम् अविच्छिन्नदर्शनौत्सुक्यम् । उत्कण्ठितेन संजातरण-
रणिकेन । उष्णोच्छ्वासम् अन्तस्तापक्वथितोद्भूतश्वासम् । समधिक-
तरोच्छासिना आयततरमुच्छ्रसितुं शीलं यस्य तेन । दूरवर्ती विप्रकृष्टे
देशे बसन् । संकल्पैः मनोरथैः । ते एवं मम प्रियतमामाश्लिष्या-