This page has been fully proofread once and needs a second look.


सन्ति । अस्मद्देशीयानां हि विदुषां वेदपुरुष इव खलु भूयसी: बहु
मतिर्मल्लिनाथमहोपाध्याये । तदुक्तं हि सर्वमप्यर्थजातं स्वतः प्रमाण-
पदवीमर्हतीति दृढाभिमानेन तदुक्तिषु साधुत्वासाधुत्वस्वारस्यास्वार-
स्यादिविचारणां महापातककृत्यमाकलयन्तः, तद्विमर्शप्रवृत्तान्गज-
निमीलिकया सुदूरमधिक्षिपन्तो भूयसा समुपलभ्यन्ते यथाश्रुतग्राहिणः
पण्डितप्रथाजीविन इत्यन्याय्यमिदमतिशोचनीयमवस्थान्तरमखिल-
स्यापि भारतस्य । यदि नाम वयं मल्लिनाथादप्यतिप्रकृष्टः कश्चन
काव्यव्याख्यातास्तीति ब्रूमः, नियतमेव तर्हि वयमपरैरर्धमुग्धैरनेकधा
परिहस्येमहीत्येतदनुभवपुनरुक्तमस्माकम् । अस्त्येवास्माकमपि मल्लि
नाथमहोपाध्याये महती संभावना, नूनमयं बहूनां काव्यानां व्या-
ख्याता दार्शनिको विद्वान् बहुश्रुतश्चेति । परं तु काव्यव्याख्यान-
करणे यावती पुनरस्य पण्डितैः प्रशस्यमाना प्रसिद्धिरस्ति, तावती-
मर्हति वायं मल्लिनाथ इत्यत्रैव बलवती विप्रतिपत्तिर्विद्यतेऽस्माकम् ।
यतो वयं बहुत्र तद्व्याख्यानेषु प्रमादमुपलभामहे, जानीमश्च

 
हंससंदेशे तावन्त्येव पद्यानि विरचयामास; यावन्ति पुनर्मेघसंदेशे ।
(मे. प्र. ६३. द्वि. ४७. आहत्य= ११०. हं. ६०+५०=११०)
'दशेन्द्रियाननं घोरम्' इति प्रमाणमनुसृत्य 'दर्पोदग्रदशेन्द्रिया-
ननमनोनक्तंचराधिष्ठिते' इति स्वयं प्रणयता हनुमत्संदेशस्याध्या-
त्मिकमान्तरार्थमन्यमनुभावयता वेङ्कटनाथेन यथा हंससंदेशे आध्या-
त्मिकार्थव्यञ्जनक्षमाणि सांकेतिकानि श्रुतिप्रत्यभिज्ञापकानि च निशा-
काम्यादिपदानि सन्ति प्रयुक्तानि, तथा अत्रापि मेघसंदेशे प्रकृति-
पुरुषादिपदानि तादृशानि वर्तन्त इति सुधियः स्वयमेव जानन्तु ।