This page has not been fully proofread.

१५०
 
मेघसंदेशे
 
इत्यादेश्च यचवचनत्वात् 'पाठक्रमादर्थक्रमस्य बलीयस्त्वम्' इति न्या-
यात् अर्थानुरोधेन आत्मनो वचनाच्च मम वचनत्वाच्चेति क्रमो ज्ञेयः ।
अर्थविवक्षया तु न क्रमभङ्गदोषप्रसङ्गः । तव सहचरः न पतिमा
त्रम्, नापि प्रियमात्रम्, अपि तु चक्रवाकवत्पृथक्संचरितुमप्यशि-
क्षितः। रामगिर्याश्रमस्यः रामगिरिसंज्ञक गिरिविशेषगताश्रमवर्ती ।
सदचरो रामगिर्याश्रमस्थ इति, अघटमानसंघटनदुर्ललिते विधिवि-
लसिते विरोधिनि क उपालभ्यतामिति भावः । अव्यापन्नः त्वद्दर्श-
नाशापाशनिगलितजीविततया कथमप्येतावतो दिवसान् जीवन्नेव ; न
तु तत्प्राणितविषया चिन्ता त्वया कर्तव्येत्याशयः । कुशलं जीवितसं-
धारणरूपं मङ्गलम्, त्वज्जीवितायत्तत्वात् तदीयजीवितधारणप्रयोज-
नस्य । अवले इति, एतावत्येव तत्य चिन्ता – त्वं प्रकृतिपेलवा
विशेषतो विरद्दाधिभिः कृशतरीकृता; अतस्त्वाम् अपि नाम शापावसाने
जीवन्तीं संभावयेयम् – इति योत्यते । वियुक्तामिति, अवश्यप्रष्टव्यत्वे
हेतुः, सुलभकुशलेतरत्वादवस्थायाः । अपि सुवासिनि निष्प्रत्यूह-
नियमासि ? अपि निरापदो भवनमुपवनतरवः परिष्कुर्वते ! अपि
कुशली परिजनो वशे बर्तते ? अपि सुरक्षितं कोशगृहम् ? इत्यादीनां
प्रष्टव्यान्तराणां बहूनां विद्यमानत्वेऽपि किमादौ जीवितप्रश्न एव
क्रियत इति चेत्तत्राद— पूर्वाशास्यमिति । प्रथमप्रार्थ्यम्, प्रार्थ्यत्वा-
दिष्टविषये प्रष्टव्यत्वमपि तस्य सिध्यति । सुलभविपदाम् अचिन्तितो-
पनमद्विरहादिदुःखोत्खातनिर्वृतीनामित्यर्थः । तदपि तावत्सह्यते, यदि
पुनः समागमे निश्चयः; सोऽपि नेत्याइ- प्राणिनामिति । छत्र-
च्छत्रिणोरिवात्यन्तविविक्ततया वर्तमानयोर्देइदेहिनोरविश्लेषेणावस्थि-
2