This page has been fully proofread once and needs a second look.

१५०
 
मेघसंदेशे
 
इत्यादेश्च यक्षवचनत्वात् 'पाठक्रमादर्थक्रमस्य बलीयस्त्वम्' इति न्या-

यात् अर्थानुरोधेन आत्मनो वचनाच्च मम वचनत्वाच्चेति क्रमो ज्ञेयः ।

अर्थविवक्षया तु न क्रमभङ्गदोषप्रसङ्गः । तव सहचरः न पतिमा

त्रम्, नापि प्रियमात्रम्, अपि तु चक्रवाकवत्पृथक्संचरितुमप्यशि-

क्षितः। रामगिर्याश्रमस्यःथः रामगिरिसंज्ञक गिरिविशेषगताश्रमवर्ती ।

चरो रामगिर्याश्रमस्थ इति, अघटमानसंघटनदुर्ललिते विधिवि-

लसिते विरोधिनि क उपालभ्यतामिति भावः । अव्यापन्नः त्वद्दर्श-

नाशापाशनिगलितजीविततया कथमप्येतावतो दिवसान् जीवन्नेव ; न

तु तत्प्राणितविषया चिन्ता त्वया कर्तव्येत्याशयः । कुशलं जीवितसं-

धारणरूपं मङ्गलम्, त्वज्जीवितायत्तत्वात् तदीयजीवितधारणप्रयोज-
नस्य । अव

नस्य । अब
ले इति, एतावत्येव तत्स्य चिन्ता-- त्वं प्रकृतिपेलवा

विशेषतो विरद्दाहाधिभिः कृशतरीकृता; अतस्त्वाम् अपि नाम शापावसाने

जीवन्तीं संभावयेयम्-- इति द्योत्यते । वियुक्तामिति, अवश्यप्रष्टव्यत्वे

हेतुः, सुलभकुशलेतरत्वादवस्थायाः । अपि सुवासिनि निष्प्रत्यूह-

नियमासि ? अपि निरापदो भवनमुपवनतरवः परिष्कुर्वते ! अपि
? अपि
कुशली परिजनो वशे र्तते ? अपि सुरक्षितं कोशगृहम् ? इत्यादीनां

प्रष्टव्यान्तराणां बहूनां विद्यमानत्वेऽपि किमादौ जीवितप्रश्न एव

क्रियत इति चेत्तत्राद—ह-- पूर्वाशास्यमिति । प्रथमप्रार्थ्यम्, प्रार्थ्यत्वा-

दिष्टविषये प्रष्टव्यत्वमपि तस्य सिध्यति । सुलभविपदाम् अचिन्तितो-

पनमद्विरहादिदुःखोत्खातनिर्वृतीनामित्यर्थः । तदपि तावत्सह्यते, यदि

पुनः समागमे निश्चयः ; सोऽपि नेत्याह-- प्राणिनामिति । छत्र-

च्छत्रिणोरिवात्यन्तविविक्ततया वर्तमानयोर्देदेहिनोरविश्लेषेणावस्थि-
2