This page has not been fully proofread.

द्वितीयाश्वासः ।
 
इति व्यज्यते । तस्या अवधानमेवोपपादयति- सीमन्तिनीनाम्
उत्तमाङ्गनानाम् । कान्तोपान्तात् प्रियतमसमीपात् । तत्संदेशादिवि-
शिष्टत्वेन, सुहृदुपगमः तदीयमित्रागमः; न पुनः कान्तमित्रागम-
मात्रम्, तस्यादरमात्रविषयत्वात्, 'संगमात्किंचिदूनः' इति वक्तु-
मयुक्तत्वात् । संगमात् तदङ्गसङ्गात् । किंचिदूनः ईषदेव हीनः ।
एवशब्दोऽध्याहर्तव्यः । तद्वचनश्रवणेन श्रोत्रस्य, तच्चरितपरिज्ञानेन
हृदयस्य च समाश्वासात्, नयनरसनघ्राणस्पर्शनानामेव सुखसंविभागा-
भावादित्यर्थः । अत्त्रोपमार्थान्तरन्यासश्चालंकारः ॥ ३३ ॥
 
१४९
 
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तु-
ब्रूया एवं तब सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमवले पृच्छति त्वां वियुक्तां
पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ ३४ ॥
अथैवमभिमुखीकृतामवहितां च तां प्रति वचनप्रकारमाह-
तामायुष्मन्नित्यादि। तां यैवं श्रवणायाबहिता, ताम्। आयुष्म-
निति, ईदृशदुःखसागरमग्नजनपरित्राणात् भवत एव सफलतया प्रश-
स्तमायुरिति द्योत्यते । प्रशंसायां मतुप् । मम वचनाच्च मदीयवच-
नत्वेन चेत्यर्थः । उपकर्तुः ईदृशपरमोपकारकारिणः । आत्मनश्च
आत्मशब्देन मेघः परामृश्यते, भवतश्चेत्यर्थः । वचनादित्यनुषज्य...
ते । एवं अनन्तरवक्ष्यमाणप्रकारेण । अव च 'तव सहचर: ' इत्या-
' मन्मुखेनेदमाद्द' इत्यन्तस्य मेघवचनत्वात्, 'श्यामासु'
 
रभ्य