This page has been fully proofread once and needs a second look.

१४८
 
मेघसंदेशे
 
पवन-
A
 
इति अनेन प्रकारेण निजकर्णरसायनायमानमन्नामसंकीर्तनपुरःसरं

कथित इत्यर्थः । 'वानरोऽहं महाभागे दूतो रामस्य धीमतः। राम-

नामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥' इत्यादिवादिनम्,

तनयं पैतृकबलावलेपतृणीकृतदुर्लङ्घलङ्कादुर्गं स्वसमीपमागतं हनूम-

न्तम् । मैथिलीत्यनेन, न केवलं सीरध्वजस्यैव, किंतु मिथिलाभवा-

नामतीतानामागामिनां च राजर्षीणामतिपवित्रेण निजचरित्रेण पावनी

अलंकारभूता चेति ध्वन्यते । मैथिलीव वक्ष्येत्यनेन, यथा देवी

सीता बावातात्मजं हर्षविस्मयस्नेहहुमानविश्वासोत्कण्ठाशलितहृदय-
मब

मव
लोकितवती, तथा त्वां मद्गेहिनीति व्यज्यते । उपमानेन दुष्कर

कार्यशक्तत्वम्, मित्रकार्येष्वनिर्वेदः, बन्धुजनानुरागः,
विशुद्धशास्त्रो-
कार्यशक्तत्वम्, मित्रकार्येष्वनिर्वेदः, बन्धुजनानुरागः,

द्भासितप्रतिभाप्रसरत्वम्, विजितेन्द्रियत्वं च मेघस्य, निजचरित्र-

निष्लङ्कत्वम्, महाभिजनत्म्, स्त्रीरत्नत्वं च नायिकायाः प्रकाश्यते ।

उन्मुखी उन्नमितदना। उत्कण्ठोच्छुछ्वसितहृदया मद्वार्ताश्रवणौ-

त्सुक्विकसितहृदया। उन्हच्छ्वसितं पूर्वसंकोचविरहादुल्लसितम्,

'सुग्गीअस्स वि दिअभंहिअअं राइवहबसुंकअपडिमुञ्चणासन्तहंह्नं । अगणिअद-

मुहृदप्पं णिब्बूदवूढभरं व तक्खणं ऊससिअं॥' 'पूर्वापराधभीतस्य

कामस्योच्छुछ्वसितं मनः' इतिवत् । संभाव्य ' कल्याणी बत गाथेयं

लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ '

इत्यादिभिः प्रियवचनैरर्ष्घ्यादिभिश्च संपूज्य । संभाव्य चैवेत्येवका-

रेण, तस्या दर्घहर्षसंभ्रमेऽप्युपचाराधानं ध्वन्यते । अस्मात् उक्ताद्वच-

नात्। परम् अनन्तरं वक्ष्यमाणं मदीयं संदेशम्। अवहिता

एकाग्रचित्ता । सौम्पेयेति, शान्तात्मनस्तव दर्शने को नाम नाद्रियत