2023-02-23 14:18:03 by manu_css
This page has been fully proofread once and needs a second look.
१४७
तादृशक्लेशशतानिरूपणेनैव तेषामविश्रमं प्रवृत्तिर्व्यज्यते । अध्वगानां
पथिकानाम्, अर्थाद्विरहिणामिति लभ्यते । मन्द्रस्निग्धैः गम्भीरैर-
रू
सूच्यते । बहुवचनेन खेदेऽपि तेषां मध्ये विलम्बचिन्तापरिहाराय
ध्वनिपरंपरया विभीषिका द्योत्यते । त्वराया हेतुमाह
मोक्षोत्सुकानीति । विरहव्यक्तदौर्बल्यानां प्रेयसीनामेतच्छब्दश्रवणे
जीवितसंशयोऽपि स्यादिति शङ्कया तत्परिहाराय झटित्युपगमेन
तासामेकवेणीबन्धनोद्वेष्टनार्थमुत्कण्ठितानीत्यर्थः । त्वरयति न पुन-
स्त्वरयामीति परोक्षनिर्देशः प्रसिद्धाम्बुवा
दयसंवादमस्याः संपाद्य स्वस्य तद्भावप्रकाशनात्स्वसामर्थ्ये विस्र-
म्भजननाय । यस्त्वरयति, तमम्बुवा
त्युक्तेः, अत्रापि मम शक्तिरस्त्येव, किं तु विधिविहितस्यावधेरल-
ङ्घ्यत्वात्तदीयदूतत्वेनागतोऽस्मि, किं करोमि मान्यशीले, नान्या
गतिरस्तीत्यनुकम्पा संतापश्च ध्वन्यते । अत्राप्रस्तुतप्रशंसालंकारः,
कार्यद्वारेण स्वसामर्थ्यस्य कारणस्य प्रतिपादनात् ॥ ३२ ॥
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोपान्तात्सुहृदुपगमः संगमात्
अथैतद्वचनानन्तरं तस्याः प्रवृत्तिमाह