2023-02-17 12:54:47 by ambuda-bot
This page has not been fully proofread.
१४६
मेघसंदेशे
7
पत्नीति शोकोऽपि त्वद्विरहे वर्तत इति द्योत्यते; 'पत्नी नष्टेति
शोकेन प्रियेति मदनेन च इति श्रीरामायणोक्तेः । अतश्च तव
धर्मंपल्याः समाश्वासनमवश्यकर्तव्यमेव तस्येति द्योत्यते । मित्रं मुद्द-
दम्, ईदृशेषु कार्येषु मित्राणामेवाधिकृतत्वात् । तेषामप्यपण्डितत्वा-
नात्मवित्त्वादिदोषत्वत्त्वादप्रियत्वे बाह्यत्वमाशङ्कयाह - प्रियमिति ।
निर्दोषोऽयमिति मां हृदयनिर्विशेषं मन्यमानः परममन्त्रेष्वन्तरङ्गी-
करोतीत्यर्थः, 'नासुहृत्परमं मन्त्रं भारताईति वेदितुम् । अपण्डितो
बापि सुहृत्पण्डितो वाप्यनात्मवान्' इति महाभारतोक्तेः । अविधवे
जीवद्भर्तृके इत्यामन्त्रणेनैव तव प्राणसमो जीवत्येव, न खलु तजीविते
त्वया शङ्का कर्तव्येति तस्या हृदयमवस्थापयति; सति धर्मिणि धर्मा-
चिन्त्यन्त इत्यन्येषां विशेषाणामत्वरयैव वक्तव्यत्वात् । विद्धि विजा-
नीदि। अम्बुबाइमिति, स्वभावत एव परोपकारैकपरत्वं द्योतयन्,
विश्वास्यतामात्मनः प्रकाशयति । अथ किं तन्मित्रत्वमात्रेण मद्दर्शना-
यागत इति चेत्तत्राह- तत्संदेशात् तदीयात् त्वद्विषयात्संदेशा
देतोः । मनसि निद्दितात् न तु लेखार्पितात् । अनेन मम निसृष्टार्थता-
माप्ततां चावगम्य मन्मुखे तेन दत्तो मया चावधानेन हृदये निक्षिप्त इति
द्योत्यते । त्वत्समीपम् आगतं त्वदर्शनमेव प्रधानप्रयोजनत्वेनोद्दिश्य दूर-
देशादागतम्, न पुनरानुषङ्गिकत्वदर्शनार्थमित्यनेन तद्दर्शनस्य गौरवं
ध्वनितम्। अचिराच त्वया सद् तं घटयिष्यामीति द्योतयन्,
विरद्दिजनसंघटनव्यापारसामर्थ्यमाइ – य इति । वृन्दानि समूहान् ।
अनेन विविधकार्यव्यप्रचेतसामनेकेषां जनानां तत्तत्कार्योपेक्षणेन संभूय
निवर्तनं सूचितम् । त्वरयति शीघ्रगमनाय प्रेरयति । पथि श्राम्यतां
आत्मनो