This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१४५
 
मालती जातिः । दुःखावहेनापि जलदपवनेन विरहिण्याः समाश्वासन-
कथनं तस्य स्वभावतः संतप्तशरीरनिर्वापकत्वाद्विरहदुःखस्य संदेशेना-
नन्तरमेव निर्वापयिष्यमाणत्वाच्चेति ग्राह्यम् । विद्युद्गर्भः उदरनियमित
तटिल्लतः। तत्फलमाह—स्तिमितनयनाम् अतर्कितोपनतेन भवद्दर्श-
नेन बिस्मयचिन्तौत्सुक्यादिविवशतया निश्चलन्यस्तदृष्टिम्; तटितो
बहिः स्फुरणे स्तिमितनयनात्वं न संभवतीति भावः । त्वत्सनाथे त्वया
नाथबति, सहित इत्यर्थः । गवाचे वातायने । धीर अविकृतेन्द्रिये-
ति वचनौचित्यम् । अथ वा, धीरस्तनितवचनैः गम्भीरगर्जितरू-
पैर्वाक्यैः । मानिनीं स्वचारित्रपरिरक्षणाभिमानशालिनीम्; ततोऽपि
तव तया संलापे न दोष इति भावः । अथ वा, एतावतो दिव-
सान् दुःखिताया ममाश्वासनाय वार्तामात्रमपि न कस्यचिन्मुखेन
कठिनहृदयेन प्रेषितमिति मयि प्रणयप्रकोपवतीमित्यर्थः। वक्तुं
प्रक्रमेथा इति । 'एवं ब्रूयाः' इति वक्ष्यमाणस्य संदेशस्यावसरला-
भायाभिमुखीकुर्वित्यर्थः । अत्र सहोक्तिरलंकारः ॥ ३१ ॥
भर्तुमिंत्रं प्रियमविधवे विद्धि मामम्बुवाई
तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् ।..
यो वृन्दानि त्वरयति पथि श्राम्यतामध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥
 
अथ अभीष्टवस्तुसंकीर्तनरूपम भिमुखीकरणप्रकारमाह- भर्तु-
रिति । भर्तुरिति, न केवलं प्रियेति तस्य मदन एव, अपि तु धर्म-
M 10
 
-