This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१४५
 
मालती जातिः । दुःखावहेनापि जलदपवनेन विरहिण्याः समाश्वासन-

कथनं तस्य स्वभावतः संतप्तशरीरनिर्वापकत्वाद्विरहदुःखस्य संदेशेना-

नन्तरमेव निर्वापयिष्यमाणत्वाच्चेति ग्राह्यम् । विद्युद्गर्भः उदरनियमित

तटिल्लतः। तत्फलमाह-- स्तिमितनयनाम् अतर्कितोपनतेन भवद्दर्श-

नेन बिविस्मयचिन्तौत्सुक्यादिविवशतया निश्चलन्यस्तदृष्टिम्; तटितो

बहिः स्फुरणे स्तिमितनयनात्वं न संभवतीति भावः । त्वत्सनाथे त्वया

नाथति, सहित इत्यर्थः । गवाचेक्षे वातायने । धीर अविकृतेन्द्रिये-

ति वचनौचित्यम् । अथ वा, धीरस्तनितवचनैः गम्भीरगर्जितरू-

पैर्वाक्यैः । मानिनीं स्वचारित्रपरिरक्षणाभिमानशालिनीम्; ततोऽपि

तव तया संलापे न दोष इति भावः । अथ वा, एतावतो दिव-

सान् दुःखिताया ममाश्वासनाय वार्तामात्रमपि न कस्यचिन्मुखेन

कठिनहृदयेन प्रेषितमिति मयि प्रणयप्रकोपवतीमित्यर्थः। वक्तुं

प्रक्रमेथा इति । 'एवं ब्रूयाः' इति वक्ष्यमाणस्य संदेशस्यावसरला-

भायाभिमुखीकुर्वित्यर्थः । अत्र सहोक्तिरलंकारः ॥ ३१ ॥

 
भर्तुमिंर्मित्रं प्रियमविधवे विद्धि मामम्बुवा
हं
तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् ।..

यो वृन्दानि त्वरयति पथि श्राम्यतामध्वगानां

मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥
 

 
अथ अभीष्टवस्तुसंकीर्तनरूपम भिमुखीकरणप्रकारमाह-- भर्तु-

रिति । भर्तुरिति, न केवलं प्रियेति तस्य मदन एव, अपि तु धर्म-
M 10
 
-