This page has not been fully proofread.

१४४
 
मेघसंदेशे
 
अन्यथाकरणे दोषमाइ- प्रणयिनि निरतिशयप्रेमाद्र इति, भुज-
ग्रन्थिगादत्वहेतुः । कथंचित्स्वनलब्धे प्रयत्नेन समासादिते सति ।
सद्यः प्राप्त्वनन्तरमेव ; कंचित्कालं बिलम्बे तु तदावर्जनीयत्वायुक्त-
मेवेति भावः । कण्ठच्युतभुजलताग्रन्थि मत्कण्ठदेशाद्विगलितो
भुजलतयोर्वलयाकारेण बन्धनरूपो ग्रन्थिर्यस्य । सयः कण्ठच्युतेति,
तदानीं तस्य शोच्यतातिशयं ध्वनयति । गाढोपगूढं दृढतरं तर्षो-
त्कर्षादा लिङ्कनम् । किमर्थमसौ न प्रबोध्यत इति कार्ये पृष्ठे कारण-
स्याभिधानादप्रस्तुतप्रशंसालंकारः ॥ ३० ॥
 
तामुत्याप्य स्वजलकणिकाशीत लेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
 
बकुं धीर स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥
 
अथ तामचसरे प्रबोध्य, संदेशश्रवणायाभिमुखीकुर्वित्याह- ता-
मुत्थाप्येत्यादि । तां स्वप्नत्तमागमसुखनिर्वृताम् । उत्थाप्य प्रबोध्य।
स्वजलकणिकाशीतलेन त्वदुदरनिर्गतत्वेन त्वत्संबन्धिजलबिन्दुसंसर्ग-
शिशिरेण । प्रत्याश्वस्तां स्वप्नसमागमसुखभङ्गप्रतिनवीकृतविरहदुःख-
तया शनैः पुनरुपपन्नमसादाम् । मालतीजालकानां तु प्रत्याश्वासो
नाम दिवादनसंतापग्लानिविरहेणोल्लासः । समं सद्द, तेषामपि
प्रदोषसमये विकासात् । ततश्च तस्या अपि संतापासहसौकुमार्यत्वं
घ्वन्यते। अमिनवैः तत्कालविकसितैः । जांलकैः कुड्मलैः, समूद्दैर्वा ।