This page has been fully proofread once and needs a second look.

१४४
 
मेघसंदेशे
 
अन्यथाकरणे दोषमाह-- प्रणयिनि निरतिशयप्रेमार्द्र इति, भुज-

ग्रन्थिगात्वहेतुः । कथंचित्स्वप्नलब्धे प्रयत्नेन समासादिते सति ।

सद्यः प्राप्त्वनन्तरमेव ; कंचित्कालं बिविलम्बे तु तदावर्जनीयत्वाद्युक्त-

मेवेति भावः । कण्ठच्युतभुजलताग्रन्थि मत्कण्ठदेशाद्विगलितो

भुजलतयोर्वलयाकारेण बन्धनरूपो ग्रन्थिर्यस्य । सयः कण्ठच्युतेति,

तदानीं तस्य शोच्यतातिशयं ध्वनयति । गाढोपगूढं दृढतरं तर्षो-

त्कर्षादा लिङ्कननगम् । किमर्थमसौ न प्रबोध्यत इति कार्ये पृष्ठेटे कारण-

स्याभिधानादप्रस्तुतप्रशंसालंकारः ॥ ३० ॥
 

 
तामुत्याथाप्य स्वजलकणिकाशीत लेनानिलेन

प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।

विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
 
बकुं

वक्तुं
धीर स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥
 

 
अथ तामसरे प्रबोध्य, संदेशश्रवणायाभिमुखीकुर्वित्याह-- ता-

मुत्थाप्येत्यादि । तां स्वप्नत्तमागमसुखनिर्वृताम् । उत्थाप्य प्रबोध्य।

स्वजलकणिकाशीतलेन त्वदुदरनिर्गतत्वेन त्वत्संबन्धिजलबिन्दुसंसर्ग-

शिशिरेण । प्रत्याश्वस्तां स्वप्नसमागमसुखभङ्गप्रतिनवीकृतविरहदुःख-

तया शनैः पुनरुपपन्नमसादाम् । मालतीजालकानां तु प्रत्याश्वासो

नाम दिवादनसंतापग्लानिविरहेणोल्लासः । समं सद्द, तेषामपि

प्रदोषसमये विकासात् । ततश्च तस्या अपि संतापासहसौकुमार्यत्वं
घ्

ध्
वन्यते। अमिभिनवैः तत्कालविकसितैः । जांजालकैः कुड्मलैः, समूद्दैहैर्वा ।