This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१४३
 
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वनलब्धे कथंचि
त्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥
अथास्य तदुपगमसमये तस्याः कमप्यवस्थान्तरं संभाव्य तदनु-
गुणां स्थितिं सहेतुकमुपदिशति - तस्मिन्काल इत्यादि । तस्मिन्
'त्वय्यासन्ने ' इति प्रकृते त्वदासत्तिकाले । जलदेति, स्वकीयशीकर-
निकरशिशिरमारुतस्पर्शेन तस्या निर्वापितशरीरतया सुखनिद्रोपपत्ति-
द्यत्यते। अथ वा, स्तनितस्यैव निषेधाद्वृथावस्थानपरिहाराय तत्समीपे
स्थित्वैव बहिः शनैःशनैर्निःशब्दं जलमोक्षणविनोदः कार्य इति
ब्यज्यते । अथ वा, विरहिजनजीवितहरत्वेन प्रसिद्धस्य भवतो दर्शने
सा यथा प्राणान्न जह्यात्, तथा कर्तव्यमिति । सा ' निद्रामाकाङ्क्ष-
न्तीम्' इत्युक्तप्रकारेण दुर्लभनिद्रा । यदि स्यादिति । अत्र न तु
निश्चय इति भावः । अन्वास्य उपास्य, समीपे निषद्येत्यर्थः ।
स्तनितविमुखः गर्जनाद्विरतः, तदकालप्रबोधशङ्कया तत्रासपरिजि-
दीर्षया च । याममात्रं मुहूर्तत्रयमात्रम्, तावतोऽवघेरन्यूनातिरिक्त-
तया रमणीयत्वात्समागमसुखस्य तावता निर्वृत्तत्वेन स्वाप्नविरहस्य
तादृशदुःखावहत्वाभावात् । प्रथमयामै चिन्तासंतापेन निद्रया विहीने,
द्वितीययामे श्रमेण स्वाभाविककालशैत्याच्च कथंचिन्निद्रोपपत्तेस्तृती-
ययामे पुनः प्रचोधाच्चोत्तमस्त्रीणामतिचिरनिद्राया अयुक्तत्वाञ्च याम-
मात्रमित्युक्तम् । सद्दस्व क्षमस्व, अप्रबोधयंस्तूष्णीमास्वेत्यर्थः ।