This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१४३
 
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-

दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।

मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि
-
त्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥

 
अथास्य तदुपगमसमये तस्याः कमप्यवस्थान्तरं संभाव्य तदनु-

गुणां स्थितिं सहेतुकमुपदिशति -- तस्मिन्काल इत्यादि । तस्मिन्

'त्वय्यासन्ने ' इति प्रकृते त्वदासत्तिकाले । जलदेति, स्वकीयशीकर-

निकरशिशिरमारुतस्पर्शेन तस्या निर्वापितशरीरतया सुखनिद्रोपपत्ति-
द्य

द्यो
त्यते। अथ वा, स्तनितस्यैव निषेधाद्वृथावस्थानपरिहाराय तत्समीपे

स्थित्वैव बहिः शनैःशनैर्निःशब्दं जलमोक्षणविनोदः कार्य इति
ब्

व्
यज्यते । अथ वा, विरहिजनजीवितहरत्वेन प्रसिद्धस्य भवतो दर्शने

सा यथा प्राणान्न जह्यात्, तथा कर्तव्यमिति । सा ' निद्रामाकाङ्क्ष-

न्तीम्' इत्युक्तप्रकारेण दुर्लभनिद्रा । यदि स्यादिति । अत्र न तु

निश्चय इति भावः । अन्वास्य उपास्य, समीपे निषद्येत्यर्थः ।

स्तनितविमुखः गर्जनाद्विरतः, तदकालप्रबोधशङ्कया तत्रासपरिजि-
दी

ही
र्षया च । याममात्रं मुहूर्तत्रयमात्रम्, तावतोऽवघेधेरन्यूनातिरिक्त-

तया रमणीयत्वात्समागमसुखस्य तावता निर्वृत्तत्वेन स्वाप्नविरहस्य

तादृशदुःखावहत्वाभावात् । प्रथमयामैमे चिन्तासंतापेन निद्रया विहीने,

द्वितीययामे श्रमेण स्वाभाविककालशैत्याच्च कथंचिन्निद्रोपपत्तेस्तृती-

ययामे पुनः प्रचोबोधाच्चोत्तमस्त्रीणामतिचिरनिद्राया अयुक्तत्वाञ्च याम-

मात्रमित्युक्तम् । सद्दस्व क्षमस्व, अप्रबोधयंस्तूष्णीमास्वेत्यर्थः ।