2023-02-18 16:46:35 by manu_css
This page has been fully proofread once and needs a second look.
भूयानादरः परिदृश्यतेऽस्य महाकवेः । तथा च शाकुन्तले विक्रमो-
र्वशीये च रुचिरतममयमुपनिबद्धवान्महाकविः शापप्रवासविप्रलम्भम् ।
रसानुगुणाश्च नायकस्य नायिकायाश्च तास्ता दशा: सुनिपुणं महा-
कविना तत्र तत्र प्रतिपादिता इति सुगममेवेदं सुधियाम् ।
प्रायेण हि भारतीयानां पण्डितानां कवीनां वा न खलु स्वदेश-
संनिकृष्टमपि देशान्तरमधिकृत्य विद्यते ज्ञानलवोऽपीति सर्वसंप्रतिपन्न-
मिदम् । अस्य तु महाकवेरनितरसाधारणमत्याश्चर्यकरं भूगोलपरि-
ज्ञानं देशान्तरपरिचयश्चेति मेघसंदेशमार्गकथनघट्टमनुशीलयन्को हि
नाम सचेता नाम्युपगमिष्यति।
अस्य च रसमयस्य लघुनः संदेशकाव्यस्य सन्ति व्याख्याना-
न्युपविंशानि । तेषु च सकलैरपि गुणैः सर्वतोऽपि सारतमं मल्लि-
नाथीयं व्याख्यानमिति निर्विवादं समकण्ठं सर्वेऽपि पण्डिताः प्रशं-
प्रादुर्भविष्यति परमानन्दसंदोहः । अथ वा, अयमस्य निगमान्त-
गुरोः कोऽपि कवितासंप्रदायः, यदन्यानाक्रान्तेन पथा संचरणम्,
उत वा परप्रहतामेव पद्धतिमात्मना सविशेषं परिष्कृत्य तया पुनर्ग-
मनं नाम । अत एव भूयःसु स्थलेषु मेघसंदेशापेक्षयापि हंससंदेशे
नूनमनुभूयते विशिष्टः कोऽपि रसादिभिश्चमत्कारातिशयः । यथां
चैतत्तथा संदेशविमर्शे सनिदर्शनं सविस्तरं निरूपयिष्यामः ।
इदं पुनरन्यादृशमानन्दसर्वस्वम्, यदयं श्रीमान् वेङ्कटनाथः स्वयं