This page has not been fully proofread.

"मेघसंदेशे
 
कृष्ण प्रकृत्या निर्धनो जनः । यथा भद्रां श्रियं प्राप्य तया हीनः
सुखैधितः ॥' इत्युक्तत्वात् । तां तादृशीं गुणशालिनीं भार्याम् । अहं
निरतिशयोपलालननिपुणतया यो गृहीततदीयहृदयः सोऽहम् ।
तर्कयामि उपपत्त्या संभावयामि । बाचालं बहुभाषिणम्, तद्विरह-
दशावर्णनवचनमुखरमित्यर्थ: । खलु वाक्यालंकारे, अनुनये वा ।
सुभगंमन्यभावः सुभगं युवतिजनबल्लभमात्मानं मन्यत इति सुभगं-
मन्यः । 'आत्ममाने खश् ।' 'अरुद्विषदजन्तस्य मुम्' इति मुमा-
गमः । तस्य भावस्तत्त्वम् । प्रत्यश्चम् अनुभवगोचरः, भविष्यतीति
शेषः । निखिलं सर्वम् । अचिरात् अविलम्बितमेव । भ्रातरिति ।
मत्कार्यार्थं द्रुततरगतिरप्यसीति भावः । यत् बस्तुगृहसंबद्धं गृहि-
गीसंबदं च । अत्र काव्यानुमानमलंकारः ॥ २६ ॥
 
१४०
 
"
 
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् !.
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
 
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ २७ ॥
 
अथ संदेशहारिणि मम प्रियसुहृदि त्वयि प्रत्यासन्ने समासन्नम-
त्समागमसूचकं सुनिमित्तमपि तस्याः प्रादुर्भविष्यतीत्याइ श्लोकद्वयेन-
रुद्धापाङ्गप्रसरमित्यादि । निवारितकटाक्षव्यापारम्, अलकैः कपो-
लस्यैवाच्छादनात्। अञ्जनस्नेहशून्यम्, कालाञ्जनजनितेन स्निग्ध-
दयामत्वेन रहितम् तस्यैव वर्जनात् । प्रत्यादेशात् परित्यागात् ।