This page has been fully proofread once and needs a second look.

"मेघसंदेशे
 
कृष्ण प्रकृत्या निर्धनो जनः । यथा भद्रां श्रियं प्राप्य तया हीनः

सुखैधितः ॥' इत्युक्तत्वात् । तां तादृशीं गुणशालिनीं भार्याम् । अहं

निरतिशयोपलालननिपुणतया यो गृहीततदीयहृदयः, सोऽहम् ।

तर्कयामि उपपत्त्या संभावयामि । बावाचालं बहुभाषिणम्, तद्विरह-

दशावर्णनवचनमुखरमित्यर्थ: । खलु वाक्यालंकारे, अनुनये वा ।

सुभगंमन्यभावः सुभगं युवतिजनल्लभमात्मानं मन्यत इति सुभगं-

मन्यः । 'आत्ममाने खश् ।' 'अरुद्विषदजन्तस्य मुम्' इति मुमा-

गमः । तस्य भावस्तत्त्वम् । प्रत्यश्चक्षम् अनुभवगोचरः, भविष्यतीति

शेषः । निखिलं सर्वम् । अचिरात् अविलम्बितमेव । भ्रातरिति ।

मत्कार्यार्थं द्रुततरगतिरप्यसीति भावः । यत् स्तुगृहसंबद्धं गृहि-
गी

णी
संबदंद्धं च । अत्र काव्यानुमानमलंकारः ॥ २६ ॥
 
१४०
 
"
 

 
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् !.

त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
 

मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ २७ ॥
 

 
अथ संदेशहारिणि मम प्रियसुहृदि त्वयि प्रत्यासन्ने समासन्नम-

त्समागमसूचकं सुनिमित्तमपि तस्याः प्रादुर्भविष्यतीत्याह-- श्लोकद्वयेन-

रुद्धापाङ्गप्रसरमित्यादि । निवारितकटाक्षव्यापारम्, अलकैः कपो-

लस्यैवाच्छादनात्। अञ्जनस्नेहशून्यम्, कालाञ्जनजनितेन स्निग्ध-

श्
यामत्वेन रहितम् तस्यैव वर्जनात् । प्रत्यादेशात् परित्यागात् ।