This page has been fully proofread once and needs a second look.

१३८
 
मेघसंदेशे
 
त्वामप्यास्त्रं नवजलमयं मोचयिष्यत्यवश्यं

प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥
 
रणरणि-

 
एवं तस्यास्तदानीन्तनीं दशां वर्णयित्वा तादृशदशाविशिष्टाया-

स्तस्या दर्शने तत्करुणारसपराधीनचेतास्त्वं भविष्यसीत्याह-- सा

संन्यस्ताभरणमित्यादि । सा एवमुक्तप्रकारा। संन्यस्ताभरणं ''गत-

ति दयिते तु क्वापि मङ्गस्ल्यमात्राण्यपचितगुरुविप्रा धारयेन्मण्ड-

नानि' इत्यनुमतेः कण्ठसूत्रादिमङ्गल्याभरणव्यतिरेकेण संन्यस्तानि

त्यक्तानि आभरणानि केलशोभार्थानि येन । अलेति, तादृशामति-

सुकुमाराणां कृशानां स्वानाड़्गानामपि धारणे न शक्तिरित्यद्दोहो सत्त्वे

संशयितजीवितं मम जीवितमिति शङ्कातङ्कसंकटमनुशोचनम् । पेल-

म् अतिकोमलम् । शय्योत्सङ्गे तल्पमध्ये । असकृदिति,
रणरणि-
काव्याकुलहृदयतया पुनः पुनरुत्थानं शयनतले निपतनं च द्योत्यते ।

दुःखदुःखेन आधिभिरुपद्दतत्वादन्यदीयमिव भारायमाणमतिक्लेशेन
बद

वह
न्ती । त्वामपि पूर्वदशादर्शिनं जनम्, किं पुनस्तत्कालोपनतं

भवन्तमिव तदात्विकदौःस्थ्यविवशतादर्शिनमित्यर्थः । आस्रम् अश्रु।

नवजलमयमिति, जलधरानुगुण्यात् । आसं मोचयिष्यति करुणाद्र-

द्भुरुतहृदयतया शोकाभ्श्रुवर्षिणं करिष्यतीत्यर्थः । अवश्यं निश्चितम् ।

निश्चयमेवोपपादयति-- प्रायः अव्यभिचारेण । सर्वः, जन इति

शेष: । करुणावृत्तिः अनुकम्पायां प्रवृत्तिर्यस्य ; 'अनुकम्पा तु सा

ज्ञेया दुःखितान् प्रति देद्दिहिनः । उपकारपरत्वं या कुरुते चित्तवि-

क्रिया' इति दिवाकरः । आर्द्रान्तिरात्मा आर्द्रः सर्वत्र मैत्रः अन्त-
रा
 
यो
 
सि
 

 
र्ग
 
हृ
 

 
वि
 
वि