This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
खेदात् दुःखातिशयनिःसहतया 1 सलिलगुरुभिः अश्रुबिन्दुदन्तुरा -

न्तरालतया गौरवाक्रान्तैः । पक्ष्मभिः नयनपटलरोमावलिभिः। छाद-

यित्वा पिधाय, निमील्येत्यर्थः । साभ्रे मेघसहिते, नीलजलदजालजालि-

कानिचुलिततरणिबिम्बतया तिमिरपरागनिकुरुम्बकरम्बित इत्यर्थः ।

अह्नि स्वतःसिद्धप्रसिद्धप्रकाशसंबन्धे दिवस इत्यर्थः । स्थलकमलिनीं

पङ्कमन्तरेण भूमिमात्रे प्ररोहन्तीं कमलिनीम्। कमलिन्यन्तरात्तस्याः

सौन्दर्यसौकुमार्यातिशयात्तदुपादानम्, यथा भल्लटः
-- 'न पड़्का-

दुद्भूतिर्न जलसहवासव्यसनिता वपुर्दिग्धं कान्त्या स्थलनलिन रत्न-

द्युतिमुषा' इति । न प्रबुद्धां प्रकृष्टबोरहिताम्, निमीलितनयनत्वा-

त्तीब्व्रदुःखाभिघाततिरस्कृतबाह्यविषयपरिज्ञानत्वाच्च, अन्यत्र निरर्ग-

लतरणिकरसंसर्गसुखविरहादसमग्रलब्धविकासत्वात् । न सुप्तां निखि-

लेन्द्रियविश्रामजनकस्य निद्रारसप्रसङ्गस्य भङ्गात्, अन्यत्र दिवस-

स्वाभाव्यादेव दरदलितदलसंपुटत्वमात्रविशिष्टत्वात् । कमलिनीशब्दो

यद्यपि कन्दमृणालपलाशकुसुमादिसमुदाये प्रसिद्धः, सुप्तिप्रबोधौ च

तत्प्रसूनमात्रगतौ; तथाप्यत्रयवधर्मस्या वयविन्यप्युपचारोपपत्तेस्तद्गत-

त्वेन तयोरुक्तिः, महाकविप्रयुक्तेश्च; यथा रत्नावल्याम्-- 'यातोऽ-

स्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।

आश्वासनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करो-

ति । ' इति । अत्रोपमा विरोधश्चालंकारः ॥ २५ ॥
 
2
 
१३७
 

 
सा संन्यस्ताभरणमबला पेलवं धारयन्ती
 

शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् ।