2023-02-17 12:54:45 by ambuda-bot
This page has not been fully proofread.
२२१३६
मेघसंदेशे
कष्टकबत्यचण्डतोदवेदनासंपादकेन तस्याः स्पर्शेन म्लानीकृताम् ।
अयमितनखेन अकल्पितत्वात्स्वेच्छाविवृद्धकररुहेण । असकृत् बहुशः,
पुनः पुनः पतनात् । सारयन्तीं परतोऽपसारयन्तीम् । गण्डाभोगात्
कपोलस्थलात् । कठिनविषमां कर्कशामुच्चावचां च । अयं च स्पर्श-
क्लिष्टात्वे हेतुः, स्पर्शक्लिष्टात्वं चापसारणे । एकवेणीम् एकजटात्मक-
केशबन्धनविशेषरूपां बेणीम् । करेण न तु अड्डलीभिः । अनेन लिग्धा-
सितबहुलबर्बरदीर्घसूक्ष्ममृदुलानां भिन्नाग्राणां च केशानां वेण्याकांरेण
संदष्टतया घनीभूय भारायमाणत्वात्कर कमलेनैव यत्नतोऽपसारणीय-
त्वम्, न पुनरतिदुर्बलैरङ्ङ्गुलिदलैः शक्यापसारत्वमिति द्योत्यते ।
अत्र परिवृत्तिः, काव्यलिङ्गम्, स्वभावोक्तिश्चालंकारः ॥ २४ ॥
पादानिन्दोरगृतशिशिराञ्जालमार्गप्रविष्टा-
न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयित्वा
साभ्रेऽगीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥
पादानिन्दोरित्यादि । पादान् किरणान् । अमृतशिशिरान् पि
यूपमयत्वेन शीतलान् । जालमार्गप्रविष्टान् गवाक्षैरन्तरागतान् ।
पूर्वप्रीत्या मत्सहाबस्थानसमयोपभोगसंभृतेन स्नेहेन । गतं प्राप्तम् ।
प्रियातिथीनिवाभ्युद्ग-
अभिमुखं प्रतीपमिति गमनक्रियाविशेषणम्,
तमित्यर्थः । संनिवृत्तम् इतॊमुखमेवागतम् । तथैव तत्रानासादितर-
सतया गमनदशातो निर्विशेषत्वात् झटित्येव निवारितप्रसरमित्यर्थः ।