This page has been fully proofread once and needs a second look.

२२१३६
 
मेघसंदेशे
 
कष्
कण्टकबत्यवत्प्रचण्डतोदवेदनासंपादकेन तस्याः स्पर्शेन म्लानीकृताम् ।

अयमितनखेन अकल्पितत्वात्स्वेच्छाविवृद्धकररुहेण । असकृत् बहुशः,

पुनः पुनः पतनात् । सारयन्तीं परतोऽपसारयन्तीम् । गण्डाभोगात्

कपोलस्थलात् । कठिनविषमां कर्कशामुच्चावचां च । अयं च स्पर्श-

क्लिष्टात्वे हेतुः, स्पर्शक्लिष्टात्वं चापसारणे । एकवेणीम् एकजटात्मक-

केशबन्धनविशेषरूपां बेवेणीम् । करेण न तु अड्डड़्गुलीभिः । अनेन लिस्निग्धा-

सितबहुलबर्बरदीर्घसूक्ष्ममृदुलानां भिन्नाग्राणां च केशानां वेण्याकांकारेण

संदष्टतया घनीभूय भारायमाणत्वात्कर कमलेनैव यत्नतोऽपसारणीय-

त्वम्, न पुनरतिदुर्बलैरङ्ङ्गुलिदलैः शक्यापसारत्वमिति द्योत्यते ।

अत्र परिवृत्तिः, काव्यलिङ्गम्, स्वभावोक्तिश्चालंकारः ॥ २४ ॥
 

 
पादानिन्दोरगृमृतशिशिराञ्जालमार्गप्रविष्टा-

न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।

खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयित्वा

साभ्रेऽगीह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥

 
पादानिन्दोरित्यादि । पादान् किरणान् । अमृतशिशिरान् पि
-
यूमयत्वेन शीतलान् । जालमार्गप्रविष्टान् गवाक्षैरन्तरागतान् ।

पूर्वप्रीत्या मत्सहास्थानसमयोपभोगसंभृतेन स्नेहेन । गतं प्राप्तम् ।

अभिमुखं प्रतीपमिति गमनक्रियाविशेषणम्,
प्रियातिथीनिवाभ्युद्ग-
अभिमुखं प्रतीपमिति गमनक्रियाविशेषणम्,
 

तमित्यर्थः । संनिवृत्तम् इतॊतोमुखमेवागतम् । तथैव तत्रानासादितर-

सतया गमनदशातो निर्विशेषत्वात् झटित्येव निवारितप्रसरमित्यर्थः ।