This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१३५
 
द्दौर्लभ्यं भवतु नाम; स्वाप्नस्य तु क्षणिकतया कारुणिकेन विधिनापि
क्षन्तव्यत्वमिति द्योत्यते । इति एवं निरूपणेन हेतुना । निद्राम्,
आकाङ्क्षन्तीम् इच्छन्तीम्; न पुनरनुभवन्तीम् । तत्र हेतुः— नय-
नसलिलोत्पीडरुद्धाबकाशां शोकजनिताश्रुसमूहनिरस्तस्वावस्थानस्थ-
लाम् । अत्र केनचिजलात्मना मित्राभासेन कदर्थीकृत्य दूरीकृतायां
प्रियसमागमोपायनिपुणायां सख्यां तदीयप्रियसख्यास्तदानयनचिन्ता-
समाधिरनुसंधेयः । परिवृत्तिरलंकारः ॥ २३ ॥
 
आये बद्धा विरहदिवसे या शिखादाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्झक्लिष्टामयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ २४ ॥
 
आद्येत्यादि । आद्ये तत्प्रश्रमे । बद्धा तदनुगुणेनाकारेण प्रथिता।
विरइदिवसे वियोगहेतुभूते दिवसे । शिखादाम घम्मिल्लभूषणभूतां
नवकुसुममालिकाम् । हिव्वा न पुनरपनीय, तद्गतेन कौतुकेन सह
तृणवदूरतस्त्यक्त्वेत्यर्थः । शापस्यान्ते वर्षपरिपूरणेन शापस्यावसाने
जाते । विगलितशुचा विशेषेणापुनरुद्भवाय गलिता नष्टा शुक् दुःखं
यस्य तेन; विगलितशुचेति, उपरि ईदृशानां प्रमादानां परिहारेण
मतिपूर्वे प्रवर्तनात्प्रियाविरहदुःखस्य न कदाचिदपि संभावनेति
भावः । उद्वेष्टनीयां उद्वेष्टयितुं शिथिलग्रन्थिबन्धीकर्ते योग्याम्,
यथापुरमत्युदारबन्धनाय । स्फर्शक्लिष्टां कुसुमदामकोमलेष्वद्भेषु आसने