This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१३५
 
द्दौर्लभ्यं भवतु नाम ; स्वाप्नस्य तु क्षणिकतया कारुणिकेन विधिनापि

क्षन्तव्यत्वमिति द्योत्यते । इति एवं निरूपणेन हेतुना । निद्राम्,

आकाङ्क्षन्तीम् इच्छन्तीम् ; न पुनरनुभवन्तीम् । तत्र हेतुः— नय-
- नय-
नसलिलोत्पीडरुद्धाकाशां शोकजनिताश्रुसमूहनिरस्तस्वावस्थानस्थ-

लाम् । अत्र केनचिज्जलात्मना मित्राभासेन कदर्थीकृत्य दूरीकृतायां

प्रियसमागमोपायनिपुणायां सख्यां तदीयप्रियसख्यास्तदानयनचिन्ता-

समाधिरनुसंधेयः । परिवृत्तिरलंकारः ॥ २३ ॥
 

 
आये बद्धा विरहदिवसे या शिखादाम हित्वा

शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्झ

स्पर्श
क्लिष्टामयमितनखेनासकृत्सारयन्तीं

गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ २४ ॥
 

 
आद्येत्यादि । आद्ये तत्प्रश्रमे । बद्धा तदनुगुणेनाकारेण प्ग्रथिता।
विरइ

विरह
दिवसे वियोगहेतुभूते दिवसे । शिखादाम म्मिल्लभूषणभूतां

नवकुसुममालिकाम् । हिव्त्वा न पुनरपनीय, तद्गतेन कौतुकेन सह

तृणवद्दूरतस्त्यक्त्वेत्यर्थः । शापस्यान्ते वर्षपरिपूरणेन शापस्यावसाने

जाते । विगलितशुचा विशेषेणापुनरुद्भवाय गलिता नष्टा शुक् दुःखं

यस्य तेन ; विगलितशुचेति, उपरि ईदृशानां प्रमादानां परिहारेण

मतिपूर्वेवं प्रवर्तनात्प्रियाविरहदुःखस्य न कदाचिदपि संभावनेति

भावः । उद्वेष्टनीयां उद्वेष्टयितुं शिथिलग्रन्थिबन्धीकर्तेतुं योग्याम्,

यथापुरमत्युदारबन्धनाय । स्र्शक्लिष्टां कुसुमदामकोमलेष्वद्भेड़्गेषु आसने
 
ड़्गे