This page has not been fully proofread.

मेघसंदेशे
 
रसव्याक्षेपेणाचेतितापयानात् । इच्छारतैः मनोरथानुगुणकरणबन्ध-
रात्रित्वसामान्यविव-
बन्धुरैः सुरतविशेषैः । या रात्रिः । तामिति,
क्षयोच्यते । एवेति, पश्यावयोर्विधिविलसितवैपरीत्यमिति योत्यते ।
उष्णैः, शोकजत्वात् । बिरहमद्दतीं मद्वियोगदुःखदीघभूताम् । याप-
यन्तीं गमयन्तीम् । अत्रोपमा विरोधश्वालंकारः । 'आघिक्षामाम्'
इत्यारभ्य 'न प्रबुद्धां न सुप्ताम् इत्यन्तानां 'पश्य साध्वीम्'
इत्यत्र पश्येति क्रिययान्वयः ॥ २२ ॥
 
१३४
 
`निश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
मत्संयोगः कथमुपनमेत्स्वमजोऽपीति निद्रा-
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥
निश्वासेनेति । निश्वासन नितरामायतेन श्वासेन । अधरकिस-
लयक्लेशिना पल्लबबदरुणकोमलस्याधरस्य म्लानिमधौसर्यसंपादनेन
क्लेशकारिणा । विक्षिपन्तीं व्याकुलयन्तीम् । शुद्धस्नानात् स्नेहाभ्यञ्ज-
नस्नानीयलेपविरहेण नियमार्थमभिषेकात् । परुषम् अस्निग्धम्, धूस-
रीभूतमित्यर्थः। अलकं चूर्णकुन्तलम् । जात्येकवचनम् । नूनं निश्चि-
तम् । आगण्डलम्बं कपोलं यावलम्बमानम् उपेक्षया भङ्गुरभङ्गि-
भङ्गात्प्रगुणायतमित्यर्थः । मत्संयोगः मया सहालिङ्गनादिरूपः संभो-
ग इत्यर्थः । कथमुपनमेत् केन प्रकारेणोपपद्यत । स्वप्नजोऽपि स्वप्ना-
वस्थाजनितोऽपि । अपीति, जागरदशाभाविनोऽस्य दैवनिवारितत्वा-