This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
रसव्याक्षेपेणाचेतितापयानात् । इच्छारतैः मनोरथानुगुणकरणबन्ध-
रात्रित्वसामान्यविव-

बन्धुरैः सुरतविशेषैः । या रात्रिः । तामिति,
रात्रित्वसामान्यविव-
क्षयोच्यते । एवेति, पश्यावयोर्विधिविलसितवैपरीत्यमिति द्योत्यते ।

उष्णैः, शोकजत्वात् । बिविरहमद्दतीं मद्वियोगदुःखदीर्घीभूताम् । याप-

यन्तीं गमयन्तीम् । अत्रोपमा विरोधश्वाचालंकारः । 'आघिधिक्षामाम्'

इत्यारभ्य 'न प्रबुद्धां न सुप्ताम्' इत्यन्तानां 'पश्य साध्वीम्'

इत्यत्र पश्येति क्रिययान्वयः ॥ २२ ॥
 
१३४
 
`

 
निश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।

मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रा-

माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥

 
निश्वासेनेति । निश्वासेन नितरामायतेन श्वासेन । अधरकिस-

लयक्लेशिना पल्लबबदरुणकोमलस्याधरस्य म्लानिमधौसर्यसंपादनेन

क्लेशकारिणा । विक्षिपन्तीं व्याकुलयन्तीम् । शुद्धस्नानात् स्नेहाभ्यञ्ज-

नस्नानीयलेपविरहेण नियमार्थमभिषेकात् । परुषम् अस्निग्धम्, धूस-

रीभूतमित्यर्थः। अलकं चूर्णकुन्तलम् । जात्येकवचनम् । नूनं निश्चि-

तम् । आगण्डलम्बं कपोलं यावल्लम्बमानम् उपेक्षया भङ्गुरभङ्गि-

भङ्गात्प्रगुणायतमित्यर्थः । मत्संयोगः मया सहालिङ्गनादिरूपः संभो-

ग इत्यर्थः । कथमुपनमेत् केन प्रकारेणोपपद्येत । स्वप्नजोऽपि स्वप्ना-

वस्थाजनितोऽपि । अपीति, जागरदशाभाविनोऽस्य दैवनिवारितत्वा-