2023-02-17 12:54:45 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
त्। उन्निद्राम् उद्धृतनिद्राम् । अवनिशयनासन्नवातायनस्थः
क्षाततलविततमेध्याजिनादिरूपतदीयशयनप्रदेशसंनिकृष्टगवाक्षबहि-
गस्थितः । अनेन योग्यस्थानस्थितेश्च तव न कश्चिद्दोष इति सू-
व्यते । अत्र काव्यलिङ्गमलंकारः ॥ २१ ॥
१३३
आधिक्षामां विरहशयने संनिषण्णैकपार्श्व
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
तामेवोष्णैर्विरहमहती मश्रुभिर्यापयन्तीम् ॥ २२ ॥
अथ तस्यास्तदानींतनं विरहव्यथायाः सतीत्वस्य मन्मथोन्मादस्य
चानुगुणं समवस्थानमनुरागातिशयवशादुत्प्रेक्षितं चतुर्भिः . श्लोकैर्व-
यति- आधिक्षामामित्यादि । आधिक्षामां मानसदुःखसंस्पर्शक-
शिंताम् । विरहशयने वियोगदशासमुचिते धरणीशयने । संनिषण्णै-
कपाची सभ्यनिलीनैकपार्श्वाम् । अनेन प्रियतमगतहृदयतया पार्श्वा-
तरपरिवृत्तिविरहेण एकेनैव पार्श्वेन लिखितवदवस्थानं व्यज्यते ।
प्राचीमूले पूर्वदिङ्मुखे । तनुं मूर्तिम् । कलामात्रशेषां कला षोड-
भाग एव शिष्टो यस्याः । 'मात्रं कात्न्ये॑ऽवधारणे' इति वैज-
यन्ती । सुरपरिपीतकलान्तरत्वादेककलात्मिकाममावास्यायामिन्दुमूर्ति-
मिवेत्यर्थः । उपमया प्रकृतिकोमलत्वम्, तादृशे कृशत्वेऽप्यपरिलुप्तला-
चण्यत्वम्, रसिकजनहृदयशल्यायमानकष्टदशाविशिष्टत्वं चेष्टतमाया
द्योत्यते । नीता अतिवाहिता । क्षण इव नाडिकायाः षष्ठो भाग इव,