This page has not been fully proofread.

१३२
 
मेघसंदेशे
 
इत्युक्तत्वात् । अत्र प्रकरणे स्वभावोक्तिरलंकारः ॥ २० ॥
सव्यापारामहनि न तथा पीडयेद्विमयोगः
शङ्के रात्रौ गुरुतरशृचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
 
तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ २१ ॥
 
-
 
अथ समाश्वासनोचितं तदुपसर्पणसमयमस्योपदिशति — सन्या-
पारामित्यादि । सव्यापारां पूर्वोद्दिष्टवस्यादिव्यापारसहिताम्, तदा
नीं चित्तस्य किंचिद्रयाक्षेपात् । अनि दिवसे । तथा दु:सहृतया
प्रसिद्धेन रूपेण । पीडयेत् मोद्दादिभिरवशीकुर्यात् । विप्रयोगः वि-
रहः । गुरुतरशुचं शङ्के अनल्पशोकाक्रान्तेति मन्ये । तत्र हेतुः-
निर्विनोदामिति । निरस्तकालक्षेपोपायामित्यर्थः; तदानीं स्वैरलब्धा-
वसरतया निरङ्कुशैर्निरवधिभिराधिभिराधीयमान वैधुर्यत्वात् रोदना-
दिरूपस्य शोकस्य दुर्निवारत्वमिति भावः । ते संखीमिति, तवाव-
श्यरक्षणीया ननु सेति द्योत्यते; ततश्च निशीथप्रतिपालनसमाश्वासना-
दिप्रयत्नेनालस्यमपास्यमिति द्योत्यते । तदित्यध्याहियते,
मत्संदेशैः मदीयबाचिकैः । सुखयितुम् अलम् अतितरामानन्दयि-
तुम् । पश्य निरीक्षस्व । कुलबधूसविधोपसर्पणानुचिते निशीथसमये
तामेकाकिच कथं निरीक्ष इत्यत्राह-- साध्वीमिति । विजितेन्द्रि-
बतया सदाचारैकनिरताम्, 'पतिप्रियहिते युक्ता स्वाचारा विजि-
तेन्द्रिया। इह कीर्तिमबाप्नोति प्रेत्य चानुत्तमां गतिम् ॥' इति स्मर
 
तस्मात् 1