This page has been fully proofread once and needs a second look.

तमित्यर्थः । आस्वादयन्ती अनुभवन्ती । वेत्यत्राप्यनुषज्यते; अथ-
वा, सर्वव्यापारेष्वपि तत्समागमस्य मनसानुभूयमानस्य निष्प्रत्यूहत-
यानुवृत्तेर्विकल्पानुपादानम्; यथा श्रीरामायणे- 'नैषा पश्यति
राक्षस्यो नेमान्पुष्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्य-
नं ति॥' इति, 'नैव दंशान्न मशकान्न कीटान्न सरीसृपान्। राघ-
वापनयेद्गात्रात् त्वद्गतेनान्तरात्मना ॥ ' इति च । प्रायेण बाहुल्येन,
शास्त्रतोऽनुभवतश्च सिद्धत्वादित्यर्थः । 'गतवति दयिते तु क्वापि
ङ्गल्यमात्राण्यपचितगुरुविप्रा धारयेन्मण्डनानि । उपगुरुशयनं च
स्वल्पतां च व्ययस्य प्रतिदिनमपि कुर्यादस्य वार्तानुसारम् ॥
नवहित विधानं स्वस्य निर्वाहयत्नं प्रतिदिननियमं च क्षेमसिद्ध्यै-
विदध्यात्' इत्यादि भार्याधिकारोक्तेः, सीतादिषु तथा व्यापारश्रव-
णाच्च । एते ईदृशाः ! रमणविरहेषु दयितस्य भर्तुर्वियोगेषु । बहु-
चनेन कार्यबाहुल्यान्मध्ये मध्ये प्रवासादिभिर्विरहे विरहे तथैव
वृत्तिः सतीनामिति व्यज्यते । अङ्गनानाम् उत्तमस्त्रीणाम् । विनोदाः
कालक्षेपोपायाः । प्रायेणेति, गुर्वादिसद्भावे तच्छुश्रूषादीन्यपीति द्यो-
त्यति । एत इति न पुनरन्ये इति, 'क्रीडाशरीरसंस्कारसमाजो-
त्सवदर्शनम् । हासं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥' इति स्मर-
गाणात् क्रीडादीनामचिन्तनीयत्वं ध्वन्यते । अत्र च 'पितृमातृसुत-
त्राभातृश्वश्रूश्वशुरमातुलैः । न हीना स्याद्विना भर्त्रा गर्हणीया न्यथा
भवेत् ॥' इति स्मृतस्याधिष्ठितत्वस्याकथनं प्रस्तुतरसानङ्गत्वाद्वा,
तादृशीनां साध्वीनां निरुपम निजतपः प्रभावगुप्तानां जानक्या द्रौपद्या
दमयन्त्या इव च गुप्यन्तरानपेक्षत्वाद्वा ; 'शीलेन रक्ष्यते नारी'