This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१३१
 
मित्यर्थः । आस्वादयन्ती अनुभवन्ती । वेत्यत्राप्यनुषज्यते; अथ
-
वा
, सर्वव्यापारेष्वपि तत्समागमस्य मनसानुभूयमानस्य निष्प्रत्यूहत-

नुवृत्तेर्विकल्पानुपादानम्; यथा श्रीरामायणे- 'नैषा पश्यति

क्षस्यो नेमान्पुष्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्य-

नं ॥' इति, 'नैव दंशान मशकाल कीटान्न सरीसृपान्। राघ-

पनयेद्गात्रात् त्वद्गतेनान्तरात्मना ॥ ' इति च । प्रायेण बाहुल्येन,

स्त्रतोऽनुभवतश्च सिद्धत्वादित्यर्थः । 'गतवति दयिते तु क्वापि

ङ्गल्यमात्राण्यपचितगुरुविप्रा धारयेन्मण्डनानि । उपगुरुशयनं च

वल्पतां च व्ययस्य प्रतिदिनमपि कुर्यादस्य वार्तानुसारम् ॥

नवहित विधानं स्वस्य निर्वाहयत्नं प्रतिदिननियमं च क्षेमसिद्ध्यै-

चदध्यात्' इत्यादि भार्याधिकारोक्तेः, सीतादिषु तथा व्यापारश्रव-

च । एते ईदृशाः ! रमणविरहेषु दयितस्य भर्तुर्वियोगेषु । बहु-

बचनेन कार्यबाहुल्यान्मध्ये मध्ये प्रवासादिभिर्विरहे विरहे तथैव

■त्तिः सतीनामिति व्यज्यते । अङ्गनानाम् उत्तमस्त्रीणाम् । विनोदाः

कालक्षेपोपायाः । प्रायेणेति, गुर्वादिसद्भावे तच्छुश्रूषादीन्यपीति द्यो-

यति । एत इति न पुनरन्ये इति, 'क्रीडाशरीरसंस्कारसमाजो-

सवदर्शनम् । हासं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥' इति स्मर-

गात् क्रीडादीनामचिन्तनीयत्वं ध्वन्यते । अत्र च 'पितृमातृसुत-

त्रातृश्वश्रूश्वशुरमातुलैः । न हीना स्याद्विना भर्त्रा गर्हणीया न्यथा

भवेत् ॥' इति स्मृतस्याधिष्ठितत्वस्याकथनं प्रस्तुतरसानङ्गत्वाद्वा,

शीनां साध्वीनां निरुपम निजतपः प्रभावगुप्तानां जानक्या द्रौपद्या

दमयन्त्या इव च गुप्यन्तरानपेक्षत्वाद्वा; 'शीलेन रक्ष्यते नारी'