This page has not been fully proofread.

तु बहवः । वयं पुनः, मन्दाक्रान्तायां प्रतिपादं प्रथमतः चतुर्षु
पश्चात् षट्सु परस्ताच्च सप्तस्वक्षरेषु यतेविंद्यमानतया विरहविक्लबस्य
नायकस्य संदेशावसरे क्रमेण किंचिद्विलम्ब्य विलम्ब्य निश्वासवि
च्छेदः सुकर इति तदिदं वृत्तमानुभाविकेन महाकविना समनुस्-
तमिति ब्रूमः । अत एव चेदं वृत्तं क्रमेण आरोहस्य मन्दमाक्रम-
णान्मन्दाक्रान्तापदेन व्यपदिश्यत इति च कलयामः । अल्पाक्षरा-
णामत्यधिकाक्षराणां वा वृत्तानामनुसरणं त्वेकतो वक्तव्यार्थपरिपूर्व-
सहत्वादपरतश्च हृदयोजकत्वात् न कार्यमिति मध्यस्थस्य सप्तदशा-
क्षरस्य वृत्तस्य परिग्रह इति च भावयामः । यथा च भवभूत्यादयः
शिखरिण्यादिषु, तथा कालिदासोऽपि मन्दाक्रान्तायां विशिष्यत
इति क्षेमेन्द्रः ।
 
अत्र च शापप्रवास विप्रलम्भशृङ्गारो रसः । कालिदासस्य चन्
दृशं कौशलं विप्रलम्भशृङ्गारवर्णने । न खलु विप्रलम्भमन्तरा संभो-
गस्य परिस्फुरिष्यति कापि विच्छित्तिः । 'न विना विप्रलम्भेन सं.
विशेषणतया संघटयन्सर्वात्मना शब्दतोऽर्थतश्च कालिदासीयेषु का
व्येषु निरतिशयमात्मनो बहुमानमभिदर्शयति श्रीम्मन्कवितार्किक:
सिंह: । सानुस्वारस्य वकारस्य अमृतबीजत्वात् स्वयं भगवद्भक्ति:
परिपूर्णत्वाच्च यादवाभ्युदये प्रथमतः एव 'वन्दे' पदनिर्देशः कबि
ताकिंकसिंहस्य । इंससंदेशेऽपि 'जातो वंझे' इत्युक्तौ शैथिल्यापत्त्या
तत्परिहाराय दूतभूतमेघविशेषणत्वापेक्षयापि नायके तद्विशेषणमेव
नितरां शोभत इत्यभिमत्य, 'कश्चित्' इति निर्देशमसहमानेन महा-
वेदान्तिना परमभागवतेन वेङ्कटनाथार्येण प्रथमतोऽमृतबीजं सानु: