This page has not been fully proofread.

मेघसंदेशे
 
मत्संयोगं हृदयनिहितारम्भमास्वादयन्ती
मायेणते रमणविरहेष्वङ्गनानां विनोदाः ॥ २० ॥
 
१३०
 
अथ व्यापारान्तरमाइ- शेषानिति शेषान् अवशिष्टान्,
अनतिवाहितानित्यर्थः । विरह दिवसस्थापितस्य तटयथम विश्लेषहेतुभूते
दिवसे निर्णीतस्य। अबधेः कालसीमायाः, वर्षस्येति यावत् ।
इतो दिवसादारभ्यैतावतो दिवसानतिवाह्य प्रक्षालितशापकलङ्कः समा-
गमिष्यामि, वाबदस्य मजीवितजीवातोस्त्वदीयजी वितस्य परित्राणे
प्राणसमे प्रयतस्वेति बहुमुखं समाश्वास्य मया प्रवसता स्थापितस्य
तस्य कालरात्रिचालमित्रस्य संवत्सरस्यावयवभूतान् गतशेषान्मासा-
नित्यर्थः। विन्यस्यन्ती एकादिक्रमेण निक्षिपन्ती । भुवि भूतले ।
गणनया संख्यापरिज्ञानद्देतो: । हेतौ तृतीया । अथवा, संख्यारूपेण ।
देद्दलीमुक्तपुष्पैः 'गृहाबप्रद्दणी देहली' इत्यमरः । देहल्यां द्वाराषः-
स्थितफलकायामनुदिनमेकैकशो निहितैः पुष्पैः, कतिपयदिनाव-
साने तैः संपिण्डितैर्गणितैर्गत दिवसेयत्तापरिज्ञानसौकर्यात् । अथ
मङ्गलार्थ वा,
देद्दल्यां निहितैः पुष्पैः । मासान् भुवि गणनया
बिन्यस्यन्तीत्युक्तेः तस्या मुग्धतातिशयाद्दिवसगणनद्वारेण मासगणनं
द्योत्यते; अन्यथा शिष्टत्य मासचतुष्टयस्य गणनायामीदृशयतुप्रति
पादना॒ानुपपचैः । मासोपादानं तु तेषां फलितत्वात्, मौन्ध्यरसभङ्ग-
प्रसाच तवश्व 'दिवसगणनातत्पराम्' इत्युक्तस्यानुसन्धानं च कृतं
आलिङ्गनचुम्बनादिरू-
बेदितव्यम् । मत्संयोगं मया सह समागमम्,
 
पम् । हृदयनिद्दितारम्भं मनसा संपादितप्रक्रमम्, संकल्पपरिकल्पि.
 
·
 

 

 

 
टि
 

 

 

 
2
 
c
 
C