This page has not been fully proofread.

मेघसंदेशे
 
त्रपटादिष्वाकारयितुं प्रयतमाना, न तु लिखित्वा पश्यन्ती । अनेन
प्रवद्ददश्रुपटलपिद्दितनयनत्वेन साध्वस सन्नस्विन्नकरकिसलयतया चाश-
क्यलेखनमप्यौत्सुक्यवशात्पुनः पुनरारभमाणेति योत्यते । पृच्छन्ती
अनुयुञ्जाना । मधुरवचनां श्रवणसुभगसंजल्पितामित्यनेन प्रियतमा-
वचनसहचरतया तद्वचसां तस्याः क्षणे क्षणे तदनुस्मारकत्वेन स्वप-
क्षपातभूमित्वं प्रकाश्यते । शारिकां शुकाङ्गनाम् । पञ्जरस्थां न पुनः
प्रकोष्ठनिविष्टाम्। अनेन निर्वेदात्तादृशरसेष्वनुयोगो ध्वन्यते । क
चित् किमित्यर्थः । 'कच्चिय सामवादे' इति वैजयन्ती। भर्तुः
स्मरसि मधुरफलमधुरसादिभिस्त्वत्पोषणपरस्य पितुः किं स्मरसि ।
'अधीगर्थदयेशां कर्मणि ' इति कर्मणि पष्ठी। सुभगे सौभाग्यशालिनि ।
तदेव सौभाग्यमाह- त्वं हि त्वं त्विति विशेषार्थो हिशब्दः;
अस्मदादिभ्योऽपीत्यर्थः । प्रिया इष्टा । अतस्त्वं कच्चित्स्मरसीति
पृच्छन्ती बेत्यन्वयः ॥ १८ ॥
 
१२८
 
--
 
उत्सवा मलिनवसने सौम्य निक्षिप्य वीणां
मगोत्राङ्कं विरचितपदं गेयमुद्रातुकामा ।
तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती ॥
 
अथ व्यापारान्तरमाइ- उत्सङ्गे इति । उत्सङ्गे अङ्के । मलि-
नवसने वासोन्तरपरिवर्तनाभावादरणिशयनादिना रजोरूषितम् अ
म्बरं यस्य । अनेन 'आर्तार्ते मुदिता दृष्टे प्रोषिते मलिना कृशा ।