This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
त्रपटादिष्वाकारयितुं प्रयतमाना, न तु लिखित्वा पश्यन्ती । अनेन
प्रवद्द

प्रवह
दश्रुपटलपिद्दिहितनयनत्वेन साध्वस सन्नस्विन्नकरकिसलयतया चाश-

क्यलेखनमप्यौत्सुक्यवशात्पुनः पुनरारभमाणेति द्योत्यते । पृच्छन्ती

अनुयुञ्जाना । मधुरवचनां श्रवणसुभगसंजल्पितामित्यनेन प्रियतमा-

वचनसहचरतया तद्वचसां तस्याः क्षणे क्षणे तदनुस्मारकत्वेन स्वप-

क्षपातभूमित्वं प्रकाश्यते । शारिकां शुकाङ्गनाम् । पञ्जरस्थां न पुनः

प्रकोष्ठनिविष्टाम्। अनेन निर्वेदात्तादृशरसेष्वनुयोगो ध्वन्यते । क
-
च्
चित् किमित्यर्थः । 'कच्चित्प्रश्ने सामवादे' इति वैजयन्ती। भर्तुः

स्मरसि मधुरफलमधुरसादिभिस्त्वत्पोषणपरस्य पितुः किं स्मरसि ।

'अधीगर्थदयेशां कर्मणि ' इति कर्मणि पष्ठी। सुभगे सौभाग्यशालिनि ।

तदेव सौभाग्यमाह-- त्वं हि त्वं त्विति विशेषार्थो हिशब्दः ;

अस्मदादिभ्योऽपीत्यर्थः । प्रिया इष्टा । अतस्त्वं कच्चित्स्मरसीति

पृच्छन्ती बेवेत्यन्वयः ॥ १८ ॥
 
१२८
 
--
 

 
उत्सड़्गे वा मलिनवसने सौम्य निक्षिप्य वीणां

मद्
गोत्राङ्कं विरचितपदं गेयमुद्रागातुकामा ।

तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचि-

द्भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती ॥
 

 
अथ व्यापारान्तरमाह-- उत्सङ्गे इति । उत्सङ्गे अङ्के । मलि-

नवसने वासोन्तरपरिवर्तनाभावाद्धरणिशयनादिना रजोरूषितम् अ

म्बरं यस्य । अनेन 'आर्तार्ते मुदिता दृहृष्टे प्रोषिते मलिना कृशा ।