This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१२७
 
तिलीलायौवराज्याभिषेकम्' इति । असकलव्यक्ति अपूर्णदर्शनम् ।

लम्बालकत्वात् अनलंकृतत्वेन गलितवलीकस्वैरविलम्बिनः प्रगुणा-

यताः कुन्तला यस्य, तत्त्वात् । दैन्यं शोभाविरहम् । त्वदनुसरण-

क्लिष्टकान्तेः त्वच्छब्देन पुरोवर्तिनः सलिलगर्भस्य मेघस्य परामर्शात्

नवजलधरासङ्गकलुषितलावण्यस्येत्यर्थः,
अलकप्रतिवस्तुत्वाजलध-

रस्य । अत्र निदर्शनालंकारः ॥ १७ ॥
 
.
 

 
आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।

पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
 

कञ्चिद्भर्तुः स्मरसि सुभगे त्वं हि तस्य प्रियेति ॥

 
अथ पतिदेवतायास्तस्याः स्वविरहसमयसमुचितान्व्यापारान्संभा-

वितान्प्रतिपादयन्, तदन्यतमव्यग्रा सा तव नयनगोचरं गमिष्य-

तीत्याह-- आलोके ते इत्यादि । आलोके आलोचने दर्शनगोचर

इति यावत् । निपतति पुरा निपतिष्यति, दर्शनपथमवतरिष्यतीत्यर्थः ।

' यावत्पुरानिपातयोर्लट्' इति ऌडर्थे लट् । सा मम प्रियतमा ।

बलिव्याकुला देवताविशेषान् गिरिजागिरीश प्रभृतीनचिरसमागमसंपा-

दकानुद्दिश्य पूजोपहारव्यग्रा । वाशब्दो विकल्पे । मत्सादृश्यं मच्छरीर-

प्रतिच्छन्दम् । विरहतनु वियोगदुःखेन कृशम् । तत्कथं तया ज्ञायत इति

चेत्तत्राह-- भावगम्यं मनोवृत्तिज्ञेयम्, अस्या दशाया ईदृशं तदिति

प्रेमवशात् भावनया परिच्छेद्यमित्यर्थः । लिखन्ती तूलिकया चि-