This page has not been fully proofread.

१२६
 
मेघसंदेशे
 
च कवीन्द्रेण तदर्थचमत्कारतत्परतया तदर्थछायायोनिरर्थोऽस्मिन्पद्ये
निवेशितः स यथा-
- 'हिमहतनलिनीव नष्टशोभा व्यसनपरंपरया
निपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां
प्रपन्ना' इति । अत्रातिशयोक्तिरुपमा चालंकारः ॥ १६ ॥
 

 
नूनं तस्याः मवलरुदितोच्छ्रननेवं प्रियाया
निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्ति ॥ १७॥
 
अथ तस्याः सर्वाङ्गप्रधानममन्दसौन्दर्यसुधानिधानं तन्मयत्वेना-
नुभूयमानमाननं तदात्यविशेषणविशिष्टमनुशोचन्नाइ- नूनं तस्याः
प्रबलरुदितोच्छ्रनेत्यादि । नूनं निश्चितम् । तस्याः तथाविधानुरा
गनिगलतत्वेनानुभूतायाः । प्रबलरुदितोच्छूननेत्रम् अविच्छिन्नेन म-
इता चाश्रुमोक्षेण सशोफनयनम् । प्रियाया इति, तादृशदशामग्नत्वेन
चिन्त्यमाना सा मम प्राणसमत्वान्मम हृदयमतितरां दइतीति ध्वन्यते ।
निश्वासानां मुखमारुतानाम् । अशिशिरतया अन्तर्दाहतप्तत्वेनाशीत
लत्वात् । भिन्नवर्णाधरोष्ठं भिन्नः अन्यथाकृतः वर्णः स्निग्धारणत्वं
यस्य धूसरीकृत इत्यर्थः, सोऽधरोष्ठो यस्य । इस्तन्यस्तं करकमल
तलनिबेशितकपोलमुकुरम् । चिन्तासंतानस्य चायमनुभावः; यथाह
कश्चित् – अधिकरतलतल्पं कल्पितस्वापकेली परिमलन निमीलत्पा-
ण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरप