This page has been fully proofread once and needs a second look.

१२६
 
मेघसंदेशे
 
च कवीन्द्रेण तदर्थचमत्कारतत्परतया तदर्थछायायोनिरर्थोऽस्मिन्पद्ये

निवेशितः स यथा-
- 'हिमहतनलिनीव नष्टशोभा व्यसनपरंपरया

निपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां

प्रपन्ना' इति । अत्रातिशयोक्तिरुपमा चालंकारः ॥ १६ ॥
 

 

 
नूनं तस्याः प्रवलरुदितोच्छ्रछूननेवंत्रं प्रियाया

निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।

हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-

दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विबिभर्ति ॥ १७॥
 

 
अथ तस्याः सर्वाङ्गप्रधानममन्दसौन्दर्यसुधानिधानं तन्मयत्वेना-

नुभूयमानमाननं तदात्विशेषणविशिष्टमनुशोचन्नाह-- नूनं तस्याः

प्रबलरुदितोच्छ्रछूनेत्यादि । नूनं निश्चितम् । तस्याः तथाविधानुरा
-
गनिगलतत्वेनानुभूतायाः । प्रबलरुदितोच्छूननेत्रम् अविच्छिन्नेन म-

ता चाश्रुमोक्षेण सशोनयनम् । प्रियाया इति, तादृशदशामग्नत्वेन

चिन्त्यमाना सा मम प्राणसमत्वान्मम हृदयमतितरां दतीति ध्वन्यते ।

निश्वासानां मुखमारुतानाम् । अशिशिरतया अन्तर्दाहतप्तत्वेनाशीत
-
लत्वात् । भिन्नवर्णाधरोष्ठं भिन्नः अन्यथाकृतः वर्णः स्निग्धारुणत्वं

यस्य धूसरीकृत इत्यर्थः, सोऽधरोष्ठो यस्य । स्तन्यस्तं करकमल
तलनिबे
-
तलनिवे
शितकपोलमुकुरम् । चिन्तासंतानस्य चायमनुभावः; यथाह

कश्चित्-- अधिकरतलतल्पं कल्पितस्वापकेली परिमलन निमीलत्पा-

ण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरप
 
-