This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१२३
 
मुखचन्द्रस्य 'शिखिनां बईभारेषु केशान्' इति केशपाशस्य
'नदीवीचिषु भ्रूविलासान्' इति भ्रूलतयोः, 'यास्यत्यूरुः सरस-
कदलीस्तम्भगौरश्चलत्वम्' इत्यूर्वोः, 'श्यामास्वङ्गम्' इति करचर-
णानां तत्र तत्र प्रसङ्गे वर्णयिष्यमाणत्वादत्र मुखादिवर्णनं न कृतमिति
वेदितव्यम् । श्यामा यौवनमध्यस्थेत्यर्थोऽत्र न वक्तव्यः, वर्णस्याव
श्यवक्तव्यत्वात्, 'बाला' इति चानन्तरमेवावस्थाया वक्ष्यमाणत्वात् ।
या, स्त्रीति शेषः । तत्र भवनमध्ये । स्यात् भवेत्, न तु भवति ;
आशापाशवशेन जीवेदिति संभाविता, न तु निर्णीता, मम प्रतिकू-
लदैवत्वादिति भावः । समग्रस्त्रीगुणविशिष्टत्वादुत्प्रेक्षते - युवति-
विषये तरुणीजनसृष्टिकर्मण्यधिकृते । सृष्टिः निर्माणम् । आद्या प्रथमा
प्रथममतियत्नादनल्पशिल्पकल्पिता प्रतिक्षणप्रत्यवेक्षणीया, पश्चा
त्सिसृक्षितानां युवतीनां संस्थानसौन्दर्यस्योपमानभूता योषित्प्रतियात-
नेत्यर्थः । अथ वा, स्त्रीसर्गबीजभूता परमेश्वरीतेजॉऽशसंभूता देवी
दाक्षायणी भगवतो नीललोहितस्य धर्मपत्नी सृष्टिराद्येत्युच्यते; यथाहृ
कश्चित् — नतनाभि नितम्बखिन्नमव्यादधरे शोणमचाक्षुषं विलग्ने ।
स्तनशालि वपुस्तवाम्य धातुर्महिलासृष्टिषु मातृकायमाणम्' इति । धातुः
प्रथमप्रजापतेः । अत्र प्रथमेऽर्थे उत्प्रेक्षा; द्वितीये रूपकमलंकारः ।
ततश्च तस्या धातुरतिप्रयत्ननिर्मितत्वं तत्संरम्भगोचरस्य चाशक्यवर्ण-
नत्वं ध्वन्यते ॥ १५ ॥
 
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
 
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।