This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१२३
 
मुखचन्द्रस्य, 'शिखिनां बर्हभारेषु केशान्' इति केशपाशस्य

'नदीवीचिषु भ्रूविलासान्' इति भ्रूलतयोः, 'यास्यत्यूरुः सरस-

कदलीस्तम्भगौरश्चलत्वम्' इत्यूर्वोः, 'श्यामास्वङ्गम्' इति करचर-

णानां तत्र तत्र प्रसङ्गे वर्णयिष्यमाणत्वादत्र मुखादिवर्णनं न कृतमिति

वेदितव्यम् । श्यामा यौवनमध्यस्थेत्यर्थोऽत्र न वक्तव्यः, वर्णस्याव

श्यवक्तव्यत्वात्, 'बाला' इति चानन्तरमेवावस्थाया वक्ष्यमाणत्वात् ।

या, स्त्रीति शेषः । तत्र भवनमध्ये । स्यात् भवेत्, न तु भवति ;

आशापाशवशेन जीवेदिति संभाविता, न तु निर्णीता, मम प्रतिकू-

लदैवत्वादिति भावः । समग्रस्त्रीगुणविशिष्टत्वादुत्प्रेक्षते -- युवति-

विषये तरुणीजनसृष्टिकर्मण्यधिकृते । सृष्टिः निर्माणम् । आद्या प्रथमा

प्रथममतियत्नादनल्पशिल्पकल्पिता प्रतिक्षणप्रत्यवेक्षणीया, पश्चा
-
त्सिसृक्षितानां युवतीनां संस्थानसौन्दर्यस्योपमानभूता योषित्प्रतियात-

नेत्यर्थः । अथ वा, स्त्रीसर्गबीजभूता परमेश्वरीतेजॉजोंऽशसंभूता देवी

दाक्षायणी भगवतो नीललोहितस्य धर्मपत्नी सृष्टिराद्येत्युच्यते; यथाहृ

कश्चित्-- नतनाभि नितम्बखिन्नमव्यादधरे शोणमचाक्षुषं विलग्ने ।

स्तनशालि वपुस्तवाम् धातुर्महिलासृष्टिषु मातृकायमाणम्' इति । धातुः

प्रथमप्रजापतेः । अत्र प्रथमेऽर्थे उत्प्रेक्षा; द्वितीये रूपकमलंकारः ।

ततश्च तस्या धातुरतिप्रयत्ननिर्मितत्वं तत्संरम्भगोचरस्य चाशक्यवर्ण-

नत्वं ध्वन्यते ॥ १५ ॥
 

 
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
 

दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।