This page has not been fully proofread.

१२२
 
मेघसंदेशे
 
तां कन्यां वरयेद्बुधः ॥' इति 'सा धन्या सुभगा ज्ञेया या वै
दीर्घासितेक्षणा । मयूरहंसनेत्रा च मृगनेत्रा च शोभना ।!' इति
न सामुद्रोक्तेः । अत्र 'कमलमुकुलमृद्री फुल्लराजीवगन्धः सुरतप-
यसि यस्याः सौरभं दिव्यमङ्गे । चकितमृगदृगाभे प्रान्तरचे
च नेत्रे स्तनयुगलमनघं श्रीफलश्रीविडम्बि ॥ तिलकुसुमसमानां
चिभ्रती नासिकां च द्विजगुरुसुरपूजा: श्रद्दधाना सदैव । कुवलयद-
लकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्ता ॥
बजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमध्या हंसवाणी
सुवेषा । मृदु शुचि लघु भुने मानिनी गाढलजा धवलकुसुमवासोव-
'सममूर्धा-
लभा पद्मिनी स्यात् ॥' इति नन्दीश्वरमते पद्मिनीत्वेन,
कुञ्चितघनकेशी तुच्छोदरी नितम्बाढ्या' इत्यायुक्तरीत्या वात्स्यायन-
मते हरिणीत्वेन, 'स्निग्धनखदशननयना निरनुशया मानिनी स्थिर-
स्नेद्दा । सुस्पर्शशिशिरमांसलवराङ्गविवराङ्गना श्यामा । भवति
लेष्मप्रकृतिः' इति वैद्यकरीत्या श्लेष्मप्रकृतित्वेन च, शुभः
लक्षणसंपन्नत्वाल्लोकोत्तरश्शृङ्गारालम्बनविभावत्वमस्याः प्रतिपादितम्;
* श्यामा कफप्रकृतिका बडबा मृगी वा गन्धर्वयश्चसुरकिन्नरसा-
त्त्विका वा । बालाधवाभिनवयौवनभूषिताङ्गी सा भामिनी भव-
मुदां परमं रहस्यम् ॥' इत्युक्तत्वात् । 'सुरभिशुचिशरीरा सुप्रस-
भानना च प्रचुरजनधनाढ्या भामिनी देवसत्त्वा ।' इति, 'अपे-
तरोपज्ज्वलदीप्तबेषां सग्गन्धधूपादिषु बद्धरागाम् । संगीतलीलां
कुशलां कलाज्ञां गन्धर्वसत्त्वां युवर्ती वदन्ति ।' इति लक्षितदेवगन्ध-
सत्त्वयोरन्यतरा चयं शेया, तद्गुणविशिष्टत्वात् । 'नूनं तस्याः' इति