2023-02-17 12:54:44 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
तन्वी श्यामा शिखरदशना पक्कविम्बाधरोष्ठी
मध्येक्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
१२१
6
या तत्र स्यायुवतिविषये सृष्टिराद्येव धातुः ॥
अथ दृष्टिव्यापारानन्तरं तत्र किमपि स्त्रीरत्नं प्रत्यक्षीकरिष्यसी-
त्याह – तन्वीति । तन्वी न तु तनुतरा । अनेन नातिस्थूला नाति-
कृशेति व्यज्यते, 'अतिदीर्घा भृशं हूस्वा अतिस्थूला भृशं कृशां ।
अतिगौरी भृशं काली षडेता वर्जिताः स्त्रियः' इति सामुद्रोक्तेः ।
श्यामा कुवलयदलश्यामवर्णा । शिखरदशना 'पक्कदाडिमबीजाभं
माणिक्यं शिखरं विदुः' इति हलायुधः । शिखराख्यमाणिक्यावशे-
श्रवत् स्निग्धधवलारुणदन्तीत्यर्थः, 'लक्ष्णैः स्निग्धैः सितैर्दन्तैः शोभ-
नत्वं च गच्छति' इति सामुद्रोक्तेः । पक्वबिम्बाधरोष्ठी परिणतबिम्बिका-
फलसदृशोऽधरोष्ठो यस्याः, स्निग्धारुणकोमलाधरेत्यर्थः; 'ओष्ठौ च
निर्ब्रूणौ स्निग्धौ नातिस्थूलौ न रोमशौ । रक्तौ बिम्बफलाकारौ घन-
पुत्रसुखप्रदौ ॥' इति सामुद्राक्तैः । मध्यॆक्षामा मध्यप्रदेशे तनुतरा ।
'अमूर्धमस्तकात्स्वांगादकामे' इत्यलुक् । चकितहरिणीप्रेक्षणा केन-
चित्कारणेन भीताया मृग्यास्तत्कालतरलतरमुग्धस्निग्धासितदीर्घवि-
पुलप्रेक्षणमिव प्रेक्षणं यस्याः । निम्ननाभिः गम्भीरनाभिरन्ध्रा ।
श्रोणीभारात् नितम्बगौरवाक्रान्तत्वात् । अलसगमना मन्दगतिः ।
स्तोकनम्ना ई॒षन्नमिता । स्तनाभ्यां वृत्तोत्तुङ्गपीनाभ्याम्, ' स्निग्धके-
..शी विशालाक्षी निम्ननाभिः सुमध्यमा । सुमुखी सुप्रभा नारी