This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
तन्वी श्यामा शिखरदशना पक्कविवबिम्बाधरोष्ठी

मध्येक्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।

श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
 
१२१
 
6
 
या तत्र स्या

या तत्र स्याद्
युवतिविषये सृष्टिराद्येव धातुः ॥

 
अथ दृष्टिव्यापारानन्तरं तत्र किमपि स्त्रीरत्नं प्रत्यक्षीकरिष्यसी-

त्याह-- तन्वीति । तन्वी न तु तनुतरा । अनेन नातिस्थूला नाति-

कृशेति व्यज्यते, 'अतिदीर्घा भृशं हूह्रस्वा अतिस्थूला भृशं कृशां ।
शा ।
अतिगौरी भृशं काली षडेता वर्जिताः स्त्रियः' इति सामुद्रोक्तेः ।

श्यामा कुवलयदलश्यामवर्णा । शिखरदशना 'पक्दाडिमबीजाभं

माणिक्यं शिखरं विदुः' इति हलायुधः । शिखराख्यमाणिक्यावयविशे-
श्र

वत् स्निग्धधवलारुणदन्तीत्यर्थः, 'श्लक्ष्णैः स्निग्धैः सितैर्दन्तैः शोभ-

नत्वं च गच्छति' इति सामुद्रोक्तेः । पक्वबिम्बाधरोष्ठी परिणतबिम्बिका-

फलसदृशोऽधरोष्ठो यस्याः, स्निग्धारुणकोमलाधरेत्यर्थः; 'ओष्ठौ च

निर्ब्रूव्रणौ स्निग्धौ नातिस्थूलौ न रोमशौ । रक्तौ बिम्बफलाकारौ घन-
धन-
पुत्रसुखप्रदौ ॥' इति सामुद्राक्तैःतेः । मध्यॆयेक्षामा मध्यप्रदेशे तनुतरा ।

'अमूर्धमस्तकात्स्वांगादकामे' इत्यलुक् । चकितहरिणीप्रेक्षणा केन-

चित्कारणेन भीताया मृग्यास्तत्कालतरलतरमुग्धस्निग्धासितदीर्घवि-

पुलप्रेक्षणमिव प्रेक्षणं यस्याः । निम्ननाभिः गम्भीरनाभिरन्ध्रा ।

श्रोणीभारात् नितम्बगौरवाक्रान्तत्वात् । अलसगमना मन्दगतिः ।

स्तोकनम्ना ई॒षन्नमिता । स्तनाभ्यां वृत्तोत्तुङ्गपीनाभ्याम्, ' स्निग्धके-
..

शी विशालाक्षी निम्ननाभिः सुमध्यमा । सुमुखी सुप्रभा नारी