This page has not been fully proofread.

१२०
 
मेघसंदेशे
 
-
 
गत्वा अवलम्ब्य । सद्यः तद्दर्शनानन्तरमेव । कलभतनुतां द्वात्रिंश-
दर्षरूपचतुर्थदशावर्तिनो गजस्य शरीरमिव प्रमाणतः शरीरं यस्य,
तन्द्भावम् । शीघ्रसंपातद्देतोः गगनतलादविलम्बितावतरणनिमित्तम् ।
प्रथमकथिते बापीतटनिविष्टत्वेन पूर्वमुक्ते । अनेन वापीपवनसेवने-
नाध्वश्रमस्यानायासापनोद्यत्वं ध्वनितम् । रम्यसानौ स्फटिकादिनि-
र्मितत्वेन बासस्पृद्दाजनककटकाभोगे । निषण्णः न तु स्थितः, स्व-
त्वाद्विलब्धमेव सुखासीन इत्यर्थः । निषण्णः न तु निषीदन्, इति
भूतनिर्देशेन कंचित्काळं स्थित्वा लब्धविश्रान्तिसुख इति द्योत्पते,
तदानीमैव प्रस्तुतकार्यप्रारम्भौचित्यात्; तदाह - अर्हसि योग्यो भव-
सि, प्रसन्नचेतस्त्वाम् । अन्तर्भवनपतितां गृहोदरप्रत्रिष्टाम् । कर्तुं
न तु धर्तुम्। अनेन स्वबुद्धिपूर्वप्रवर्तने यथाभिलषितप्रभाप्रसरप्रमाण-
सिद्धिर्ध्वन्यते । अल्पाल्पभासं अतिस्वल्पप्रकाशाम्, दयिताभीति-
परिहाराय । खद्योतालीविलसितनिभां कीटमणिपरंपरापरिस्फुरणसदृ-
शीम्, तनुतरप्रकाशजननान्नयनप्रतिघाताकरणाच्चेत्यर्थः । विद्युदुन्मेष-
दृष्टिं तटित्स्फुरणरूपं चक्षुः। यादृशो रक्षस्तादृशो बलिरिति न्यायात्
मेघस्य तद्दृष्टिविशिष्टत्वौचित्यम् । गृहान्तर्वृत्तान्तनिरीक्षणायेति शेषः ।.
ननु 'खिन्नविद्युत्फलत्रः ' इत्यादिभिर्विद्युतः कलत्रत्वमुक्तम् ; अत्न तु
तत्तत्स्थलोचितार्थ-
तस्या दृष्टित्वमुच्यत इति विरोध इति चेत्,
 
प्रतिपादनेन रसनिर्वाहकत्व एव कवीनां तात्पर्यात्, शास्त्रार्थविसंवाद
इव प्रभूतप्रत्यवायाभावाच्च । 'सलिलवसनम्' इति, 'वेणीभूतप्रतनु-
सलिला' इति, 'मुखमिव पयः' इत्यादिष्वप्येवमनुसंधेयम् ।
अत्रोपमा रूपकं चालंकारः ॥ १४ ॥