This page has not been fully proofread.

द्वितीयाश्वासः ।
 
११९
 
-
 
परेषां प्रकृतिस्थानामेव गमकत्वायेति वेदितव्यम् । अथ गृहस्य यथा-
पुरमवस्थितेरभावमाशङ्क्य तमुपपत्त्या निश्चिन्वन्नाह - क्षामच्छावं
वियोगसमयतो न्यूनशोभम् । अधुना एषु दिवसेषु । मद्वियोगेन रसै-
कुशरणस्य विशिष्टसंभोगसंपत्तये तदुपस्कारतत्परस्य स्वामिनो मम दूर-
देशवर्तित्वात्तन्मूलमेव दुःखितायाः प्रियायाश्च तत्परिचरणे ताटस्थ्या--
दित्यर्थः । नूनं निश्चितम् । कुतो निश्चय इति चेत्तत्राह– सूर्यापाये
भास्करस्य ततो देशाद्देशान्तरप्राप्तौ । खल्विति सानुनयः प्रश्नः;
तवापि तत्संमतमेवेत्यर्थः । 'निषेधे वागलंकारे ज्ञीप्सानुनययोः खलु'
इति वैजयन्ती । कमलमिति प्रसिद्धकान्त्यादिगुणत्वम्, 'ताळा जा:
अन्ति गुणा जाळा दे सहिअ एहि घेप्पन्ति । रविकिरणाणुग्गद्दिआ
इद्दोत्ति कमलाइ कमलाइ इत्यत्र द्वितीयकमलशब्दवत् । पुष्यति
प्रकाशयति । स्वां सहजाम् । अभिख्यां शोभाम् । 'अभिख्या नाम
शोभयोः' इति वैजयन्ती । सहजस्यापि सौन्दर्यस्य तरणिसंनिधान
एवोन्मीलनात् । अत्रोपमानेन भवनस्यापि स्वतः सिद्धायाः शोभाया
अविनाशेऽपि स्वस्य विरहादनुज्ज्वलत्वम्, पुनः स्वसमागमे तस्य
भविष्यदनुपमरामणीयकत्वं च द्योत्यते । अत्र दृष्टान्तोऽलंकारः ॥
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
 
:
 
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।
अर्हस्यन्तर्भत्रनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥
अयैवलक्षणं स्वभवनमुपगतस्यास्यानन्तरकरणीयमाह- गत्वेदि ।