This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
११९
 
-
 
परेषां प्रकृतिस्थानामेव गमकत्वायेति वेदितव्यम् । अथ गृहस्य यथा-

पुरमवस्थितेरभावमाशङ्क्य तमुपपत्त्या निश्चिन्वन्नाह -- क्षामच्छावं
यं
वियोगसमयतो न्यूनशोभम् । अधुना एषु दिवसेषु । मद्वियोगेन रसै-

कुशरणस्य विशिष्टसंभोगसंपत्तये तदुपस्कारतत्परस्य स्वामिनो मम दूर-

देशवर्तित्वात्तन्मूलमेव दुःखितायाः प्रियायाश्च तत्परिचरणे ताटस्थ्या--

दित्यर्थः । नूनं निश्चितम् । कुतो निश्चय इति चेत्तत्राह-- सूर्यापाये

भास्करस्य ततो देशाद्देशान्तरप्राप्तौ । खल्विति सानुनयः प्रश्नः;

तवापि तत्संमतमेवेत्यर्थः । 'निषेधे वागलंकारे ज्ञीप्सानुनययोः खलु'

इति वैजयन्ती । कमलमिति प्रसिद्धकान्त्यादिगुणत्वम्, 'ताळा जा:

अन्ति गुणा जाळा दे सहिअ एहि घेप्पन्ति । रविकिरणाणुग्गद्दिआ

द्दोहोत्ति कमलाइ कमलाइ इत्यत्र द्वितीयकमलशब्दवत् । पुष्यति

प्रकाशयति । स्वां सहजाम् । अभिख्यां शोभाम् । 'अभिख्या नाम

शोभयोः' इति वैजयन्ती । सहजस्यापि सौन्दर्यस्य तरणिसंनिधान

एवोन्मीलनात् । अत्रोपमानेन भवनस्यापि स्वतः सिद्धायाः शोभाया

अविनाशेऽपि स्वस्य विरहादनुज्ज्वलत्वम्, पुनः स्वसमागमे तस्य

भविष्यदनुपमरामणीयकत्वं च द्योत्यते । अत्र दृष्टान्तोऽलंकारः ॥

 
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
 
:
 

क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।

अर्हस्यन्तर्भत्रनपतितां कर्तुमल्पाल्पभासं

खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥
अयैव

 
अथैवं
लक्षणं स्वभवनमुपगतस्यास्यानन्तरकरणीयमाह-- गत्वेदि ।
 
ति ।