2023-02-18 16:45:04 by manu_css
This page has been fully proofread once and needs a second look.
श्रीमति रामायणे भागवते च परिदृश्यमाना संदेशपद्धतिः प्रथममे-
नेनैव महाकविना सरसकवितायाः संचारक्षमा संस्कृता । एतदनुसा-
रेण प्रवृत्तेषु च संदेशकाव्येषु श्रीमद्वेदान्तदेशिकविरचितो हंससंदेशः,
उद्दण्डशास्त्रिकृतः कोकिलसंदेशः, लक्ष्मीदासकलितः शुक-
संदेशश्च सुप्रसिद्धाः । तत्र हंससंदेशश्च भूयसा मेघसंदेशमतिशेते
सर्वतो रामणीयकेनेति प्रागेव निवेदितमस्माभिः । उद्धवदूतादीनि
तु नास्माभिरवलोकितानि । मनोदूतवातदूतादीनि च भिन्नच्छायानि
रसकृशानि चेति न तान्यत्र परिगणनामर्हन्ति ।
प्रायेण च सुप्रसिद्धानि संदेशकाव्यानि मन्दाक्रान्तावृत्तमवल-
म्ब्यैव सन्ति संदृब्धानि । अस्यैव च वृत्तस्य समादरणे को नु
नाम हेतुः स्यात् ? न खलु दृश्यते लाक्षणिकेषु ग्रन्थेषु क्वचिदप्येव-
मालंकारिकेण छान्दसेन वा केनचिदेतदनुशिष्टम् । ऐच्छिकं तदिति
वृन्दावनचरम्' इति प्रथमपद्ये प्रयुज्य काव्यमुपचक्राम । यथा च
वागर्थाविति पद्यस्य व्यङ्या् र्थरसविलासादिभिर्नितरां चमत्कारका-
रिता श्रीमता अप्पय्यदीक्षितेन चित्रमीमांसायां प्रदर्शिता, तथा
वन्दे वृन्दावनचरमिति पद्यस्यापि स्वकृते यादवाभ्युदयव्याख्याने सा
प्रकटितेति तत एव शायतां रसिकवर्यैः । तथा हंससंदेशेऽपि 'जातं
वंशे भुवनविदिते’ इति मेघसंदेशे मेघविशेषणतया प्रयुक्तम् 'जातं
वंशे' इत्येतत् 'वंशे जातः सवितुरनघे' इति प्रथमपद्ये नायक-