This page has been fully proofread once and needs a second look.

(५ )
 

अयं च कालिदास एव संदेशकाव्यस्य मार्गदर्शी महाकविः ।

श्रीमति रामायणे भागवते च परिदृश्यमाना संदेशपद्धतिः प्रथममे-

नेनैव महाकविना सरसकवितायाः संचारक्षमा संस्कृता । एतदनुसा-

रेण प्रवृत्तेषु च संदेशकाव्येषु श्रीमद्वेदान्तदेशिकविरचितो इंहंससंदेशः,

उद्दण्डशास्त्रिकृतः कोकिलसंदेशः, लक्ष्मीदासकलितः शुक-

संदेशश्च सुप्रसिद्धाः । तत्र इंहंससंदेशश्च भूयसा मेघसंदेशमतिशेते

सर्वतो रामणीयकेनेति प्रागेव निवेदितमस्माभिः । उद्धवदूतादीनि

तु नास्माभिरलोकितानि । मनोदूतवातदूतादीनि च भिन्नच्छायानि

रसकृशानि चेति न तान्यत्र परिगणनामर्हन्ति ।
 

 
प्रायेण च सुप्रसिद्धानि संदेशकाव्यानि मन्दाक्रान्तावृत्तमवल-

म्
ब्यैव सन्ति संदृब्धानि । अस्यैव च वृत्तस्य समादरणे को नु

नाम हेतुः स्यात् !? न खलु दृश्यते लाक्षणिकेषु ग्रन्थेषु क्वचिदप्येव-

मालंकारिकेण छान्दसेन वा केनचिदेतदनुशिष्टम् । ऐच्छिकं तदिति
 

 
 
इति श्लोके कविचक्रवर्तिना प्रयुक्तम् 'वन्दे' इति पदमेव' बन्दे
बृ
वन्दे
वृ
न्दावनचरम्' इति प्रथमपद्ये प्रयुज्य काव्यमुपचक्राम । यथा च

वागर्थाविति पद्यस्य व्यङ्गयाया् र्थरसविलासादिभिर्नितरां चमत्कारका-

रिता श्रीमता अप्पय्यदीक्षितेन चित्रमीमांसायां प्रदर्शिता, तथा
वन्दे बृ

वन्दे वृ
न्दावनचरमिति पद्यस्यापि स्वकृते यादवाभ्युदयव्याख्याने सा

प्रकटितेति तत एव शायतां रसिकवर्यैः । तथा इंहंससंदेशेऽपि 'जातं.
बं

वं
शे भुवनविदिते ' इति मेघसंदेशे मेघविशेषणतया प्रयुक्तम् 'जातं
बं

वं
शे' इत्येतत् 'वंशे जातः सवितुरनषेघे' इति प्रथमपद्ये नायक-