This page has not been fully proofread.

(५ )
 
अयं च कालिदास एव संदेशकाव्यस्य मार्गदर्शी महाकविः ।
श्रीमति रामायणे भागवते च परिदृश्यमाना संदेशपद्धतिः प्रथममे-
नेनैव महाकविना सरसकवितायाः संचारक्षमा संस्कृता । एतदनुसा-
रेण प्रवृत्तेषु च संदेशकाव्येषु श्रीमद्वेदान्तदेशिकविरचितो इंससंदेशः,
उद्दण्डशास्त्रिकृतः कोकिलसंदेशः, लक्ष्मीदासकलितः शुक-
संदेशश्च सुप्रसिद्धाः । तत्र इंससंदेशश्च भूयसा मेघसंदेशमतिशेते
सर्वतो रामणीयकेनेति प्रागेव निवेदितमस्माभिः । उद्धवदूतादीनि
तु नास्माभिरबलोकितानि । मनोदूतवातदूतादीनि च भिन्नच्छायानि
रसकृशानि चेति न तान्यत्र परिगणनामर्हन्ति ।
 
प्रायेण च सुप्रसिद्धानि संदेशकाव्यानि मन्दाक्रान्तावृत्तमवल-
ब्यैव सन्ति संदृब्धानि । अस्यैव च वृत्तस्य समादरणे को नु
नाम हेतुः स्यात् ! न खलु दृश्यते लाक्षणिकेषु ग्रन्थेषु क्वचिदप्येव-
मालंकारिकेण छान्दसेन वा केनचिदेतदनुशिष्टम् । ऐच्छिकं तदिति
 
इति श्लोके कविचक्रवर्तिना प्रयुक्तम् 'वन्दे' इति पदमेव' बन्दे
बृन्दावनचरम्' इति प्रथमपद्ये प्रयुज्य काव्यमुपचक्राम । यथा च
वागर्थाविति पद्यस्य व्यङ्गयार्थरसविलासादिभिर्नितरां चमत्कारका-
रिता श्रीमता अप्पय्यदीक्षितेन चित्रमीमांसायां प्रदर्शिता, तथा
वन्दे बृन्दावनचरमिति पद्यस्यापि स्वकृते यादवाभ्युदयव्याख्याने सा
प्रकटितेति तत एव शायतां रसिकवर्यैः । तथा इंससंदेशेऽपि 'जातं.
बंशे भुवनविदिते ' इति मेघसंदेशे मेघविशेषणतया प्रयुक्तम् 'जातं
बंशे' इत्येतत् 'वंशे जातः सवितुरनषे' इति प्रथमपद्ये नायक-