This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
लयतो मम रागमुद्दीपयन्त्येत्यर्थः । यामध्यास्तैते यस्यां वसति ।

'अधिशीङ्ख्स्थासां कर्म' इति आधारस्य कर्मत्वात् सप्तम्यर्थे

द्वितीया दिवसविगमे दिनावसाने, दिवसस्य विहारेणैवातिवाहि-

तत्वात् । नीलकण्ठः मयूरः । वः सुहृत् युष्माकं मेघानामिष्टबन्धुः ।

अत्रोदात्तमलंकारः ॥ १२ ॥
 
११८
 

 
एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।

क्षामच्छायं भवनमधुना मद्वियोगेन नूनं

सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥
 

 
योथोक्तानि तोरणादीनि मन्दिरसौन्दर्योपयुक्तानि लक्षणत्वेन

निगमयन्, निजस्य यक्षेश्वरत्वस्यासाधारणं लक्षणं किमप्युपदिशति-
-
एभिरित्यादि । एभिः अनन्तरोचैस्तोरणादिभिः । साधो सुजन,

हृदयस्वेदस्त्वया न कर्तव्य इति भावः । हृदयनिहितैः अवधानेन

गृहीत्वा धारितैः । लक्षणैः इतरेभ्यो व्यावर्धकैर्धर्मेःमैः । लक्षयेथाः

विविच्य विजानीयाः । तत् भवनमिति शेषः । द्वारोपान्ते द्वारस्य

समीपे, अर्थादुभयतः । लिखितवपुषौ द्वारपालत्वेन चित्रनिवेशित-

निजलक्षणविशिष्टशरीरौ शङ्खपद्मौ शिरसि शङ्खेन लाञ्छितो निधिदे-

वताविशेष: शङ्खनिधिः, पद्मेन तु पद्मनिधिः, तौ । चकारो लक्षणान्त-

रसमुच्चयार्थ: । 'दृष्ट्वा' इत्युक्तेः पूर्वत्रापि दृष्टैरिति विपरिणामेन यो-
ग्

ज्
यम् । अत्र च बहुलक्षणोपदेशः कालवशात् केषांचिदन्यथात्वेऽपि
 
1