2023-02-17 12:54:43 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः ।
११७
स्वमधुगण्डूषावसेकश्च दोहलत्वेन काव्येषु प्रसिद्धे; यथा कादम्ब-
यम् – 'मदकलितकामिनीगण्डूषशीथुसेक पुलकितवकुलेषु अशो-
कताडनारणितमणिनूपुरसहस्रमुखरेषु' इति । अत्र सहोक्तिरलंकारः ॥
• तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिजवलयसुभगैर्नर्तितः कान्तया मे
यामध्यास्ते दिवस विगमे नीलकण्ठः सुहृदः ॥
अथ तत्र नियतवसतिस्त्वदुपगमे सत्कारोन्मुखः सुहृदप्यस्तीति
लक्षणद्वारेणाह—तन्मध्ये चेत्यादि । तस्य भवनस्य अङ्कणे । चकारो
लक्षणान्तरसमुच्चये। स्फटिकफलका शिखरप्रोतस्फटिकशिलामयपीठा।
तथात्वं च मयूराणां शिशिरप्रियत्वात् । काञ्चनी कनकमयी। वास-
यष्टिः क्षितितलनिखातमूलो वासार्थो दण्डः। मूले पादे। बद्धा चिता,
स्थैर्यार्थम् । अनतिप्रौढवंशप्रकाशैः अनतिपरिणतवेष्वङ्कुरसदृशप्रभैः ।
मणिभिः स्निग्धबहुलश्यामलच्छायैर्मरतकै रित्यर्थः । श्वेतरक्तश्यामानां
मुख्यवर्णानां संगमे परस्परगुणावहत्वेन कामनीयकातिशयात्तथा-
त्वोक्तिः । तालैः करकमलप्रहारशब्दैः । शिञ्जद्वलयसुभगैः तदनुगुणर-
णन्मणिकङ्कणस्पृहणीयैः, मधुरतरवाद्य विशेषमनीषोन्मेषात् । 'शिजि
अव्यक्ते शब्दे' इत्ययं धातुरात्मनेपदी; अतः परस्मैपदित्वं चि-
न्त्यम् । नर्तितः नृत्तलीलायां तालानुगुणायां शिक्षितः । मे कान्तया
तदान सातिशयरमणीयत्वादन्तरान्तरा चुम्बनालिङ्गनादिभिरुपला-