This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
११७
 
स्वमधुगण्डूषावसेकश्च दोहलत्वेन काव्येषु प्रसिद्धे; यथा कादम्ब-

यम्-- 'मदकलितकामिनीगण्डूषशीथुसेक पुलकितवकुलेषु अशो-

कताडनारणितमणिनूपुरसहस्रमुखरेषु' इति । अत्र सहोक्तिरलंकारः ॥
 

 
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।

तालैः शिञ्द्वलयसुभगैर्नर्तितः कान्तया मे

यामध्यास्ते दिवस विगमे नीलकण्ठः सुहृदःद्वः
 

 
अथ तत्र नियतवसतिस्त्वदुपगमे सत्कारोन्मुखः सुहृदप्यस्तीति

लक्षणद्वारेणाह-- तन्मध्ये चेत्यादि । तस्य भवनस्य अङ्कणे । चकारो

लक्षणान्तरसमुच्चये। स्फटिकफलका शिखरप्रोतस्फटिकशिलामयपीठा।

तथात्वं च मयूराणां शिशिरप्रियत्वात् । काञ्चनी कनकमयी। वास-

यष्टिः क्षितितलनिखातमूलो वासार्थो दण्डः। मूले पादे। बद्धा चिता,

स्थैर्यार्थम् । अनतिप्रौढवंशप्रकाशैः अनतिपरिणतवेष्ण्वङ्कुरसदृशप्रभैः ।

मणिभिः स्निग्धबहुलश्यामलच्छायैर्मरतकै रित्यर्थः । श्वेतरक्तश्यामानां

मुख्यवर्णानां संगमे परस्परगुणावहत्वेन कामनीयकातिशयात्तथा-

त्
त्वोक्तिः । तालैः करकमलप्रहारशब्दैः । शिञ्जद्वलयसुभगैः तदनुगुणर-

णन्मणिकङ्कणस्पृहणीयैः, मधुरतरवाद्य विशेषमनीषोन्मेषात् । 'शिजि

अव्यक्ते शब्दे' इत्ययं धातुरात्मनेपदी; अतः परस्मैपदित्वं चि-

न्त्यम् । नर्तितः नृत्तलीलायां तालानुगुणायां शिक्षितः । मे कान्तया

तदानीं सातिशयरमणीयत्वादन्तरान्तरा चुम्बनालिङ्गनादिभिरुपला-